पृष्ठम्:वास्तुविद्या.pdf/७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रयोदशोऽध्यायः । द्वारं च दिक्षु कर्तव्यं सर्वेषामपि वेश्मनाम् । मध्यस्थद्वारमध्यं स्याद् वास्तुमन्दिरसूत्रयोः ॥ २४ ॥ उपाराणि युज्यन्त प्रदक्षिण्यात् स्वयोनितः । द्वारपादस्य विस्तारं तुल्यमुत्तरतारतः ॥ २५ ॥ स्वस्वयोन्या गृहादीनां कर्तव्या द्वारयोनयः । प्रस्तरोत्तरयोर्मध्यं पञ्चधा विभजेद् बुधः ॥ २६ ॥ द्वारायामं चतुर्भागं शेषांशे सूर्यभाजिते । शिरोन्मानं तु सप्ताशं पञ्चांशं गुल्फमिष्यते ॥ २७ ॥ उत्सेधशेषं परिधेरतारमुदाहृतम् । प्रस्तरोत्तरयोर्मध्यमष्टभागैविभाजिते ॥ २८ ॥ सप्तांशमायतं कुर्यान्नवपश्चांशविस्तरम् । उत्सेधशेषं नवभिर्हत्वा पञ्चांशकं शिरः ॥ २९ ॥ गुल्फमानं चतुर्भागं कुर्याच्छास्त्रविशारदः । अथवा गुणतारं वा कुर्याद् द्वारं यथोचितम् ॥ ३० ॥ आग्नेय्यां मन्दिरं द्वारं दक्षिणाभिमुखं स्मृतम् । प्रत्यङ्मुखं तु नैर्ऋत्यां वायव्यां तदुदमुखम् ॥ ३१ ॥ ईशे तत् प्राङ्मुखं कुर्यात् तानि स्युः पादुकोपरि ॥ ३१३ ॥ इति वास्तुविद्यायां द्वारविन्यासो नाम त्रयोदशोऽध्यायः । १. 'क(ल्यतां ? लप्यन्तां) द्वा' घ. ङ. पाठ:. ३. 'तम् ॥' ङ. पाठः ४. 'फल्गुमा' ग. पाठ: २. 'गं' घ. ङ. पाठ..