पृष्ठम्:वास्तुविद्या.pdf/७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वास्तुविधायां स्नातोऽथ वाससी लक्ष्णे नवीने परिधाय च । उत्तरीयादिभिः सर्वैरनुलेपैरलङ्कृतः ॥ १५ ॥ संपूज्याथ गणाधीशं विप्रेभ्यो दीयतां वसु । आद्यङ्गार्थं तु तद् द्रव्यमाशीर्वादैर्द्विजेरितैः ॥ १६ ॥ सहितः प्रामुखः स्थित्वा विन्यसेत् तत्र पादुकम् । जन्माद्यमपिधानान्तं बुद्ध्या निश्चित्य मन्दिरम् ॥ १७ ॥ पत्रमानमिति प्रोक्तमुत्तरं जन्मनिष्क्रमम् । समन्तात् परितः कुर्याद् दिग्वैिदिवङ्गुलाष्टकम् ॥ १८ ॥ प्रायेण नॄणां भवने पत्रमानमुदाहृतम् । अन्यत्र कृपादिभ्योऽथ बहियोनिः प्रकीर्तितः ॥ १९ ॥ उपानं परितः कृत्वा विन्यसेत् तत्र पादुकम् | द्वारस्य दक्षिणे स्तम्भे गर्भन्यासो विधीयते ॥ २० ॥ पादुकोपरि विप्रस्य नृपाणां तदधः स्मृतम् । विशां तु तद्वस्तात्र तदधः शूद्रजन्मनाम् ॥ २१ ॥ विन्यसेज्जन्मनो मूर्ध्नि जगत्याद्यौस्तु देशिकः । एवं कृत्वा तदाद्यङ्गं तलिपं तत्र विन्यसेत् ॥ २२ ॥ दारुस्वीकरणं पश्चान्निधिगेहस्य लक्षणे । वक्ष्ये नैवात्र वक्ष्यामि ग्रन्थबाहुल्यतो भयात् ॥ २३ ॥ १. 'णेशानं बि' ग. पाठ:. २. 'तं' घ. ङ. पाठ: ३. म् । सम्यगङ्गु- लिषोडशसहितं द्वितरं कुर्याच्च पत्रमानमपि । प' घ ङ. पाठः ५. 'रा ग. पाठ:- ५. 'क्षु' घ. ङ. पाठ:. ६. 'द्यपि विन्यसेत् ।' घ. ङ. पाठः ७. 'यात् । तां प्रा' घ. पाठ: E