पृष्ठम्:वास्तुविद्या.pdf/६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रयोदशोऽध्यायः । रक्षार्थमुन्नतार्थं च शोभार्थं च प्रचक्षते । समं त्रिपेदम वा पञ्चांशशमेव वा ॥ ६ ॥ पठः. सपादं वाथ सार्धं वा पादोनद्विगुणं तु वा । द्विगुणं वात्र कर्तव्यमधिष्ठानस्य तुङ्गतः ॥ ७ ॥ आद्यङ्गपादुकादस्य निष्क्रमं करमानतः । पादोनं वाथ हस्तं वा सपादं वा प्रकीर्तितम् ॥ ८ ॥ पादोनं द्वितयं वा स्यात् किष्कुद्वितयमेव वा । उपपीठं प्रकर्तव्यं मञ्चकाद्युक्तमार्गतः ॥ ९ ॥ उपपीठ बहिर्भागमपदाङ्गणमीरितम् । तदैशान्यां प्रकर्तव्यो वारिमार्ग उदङ्मुखः ॥ १० ॥ १. 'भागम'. ग. पाठः, अङ्गणेन मुखायामहीनेनाष्टकृतेः पदम् । कृत्वा पवयं त्यक्ता सौम्ये प्रोच्यां पदं त्यजेत् ॥ ११ ॥ पदेऽन्यस्मिन् प्रकर्तव्यं महिकाकुट्टिमं बुधैः । उपपीठादिसंयुक्तं तुर्यश्रं ध्वजयोनिकम् ॥ १२ ॥ विस्तारसम उत्सेधः पादोनं वा यथोचितम् । गृहाद्यङ्गानुरूपेण कर्तव्यं मञ्चकादिभिः ॥ १३ ॥ अथातः संप्रवक्ष्यामि रचनां सर्ववेश्मनाम् । गृहाणां करणे शस्ते मुहूर्ते स्थपतिः स्वयम् ॥ १४ ॥ no २. 'त्रि' घ. पाठः ३. 'पादतः' घ. ङ. ५. 'वाप्यां प' घ. ङ. पाठः, ४. 'भुजं वा' ग. पाठः