रक्षार्थमुन्नतार्थं च शोभार्थं च प्रचक्षते ।
समं त्रिप[१]दमर्थं वा पञ्चाशद्वयंशमेव वा ॥ ६ ॥
सपादं वाथ सार्धं वा पादोनद्विगुणं तु वा ।
द्वि[२]गुणं वात्र कर्तव्यमधिष्ठानस्य तुङ्गतः ॥ ७ ॥
आद्यङ्गपादुकादस्य निष्क्रमं करमा[३]नतः ।
पादोनं वाथ हस्तं वा सपादं वा प्रकीर्तितम् ॥ ८ ॥
पादोनं द्वित[४]यं वा स्यात् किष्कुद्वितयमेव वा ।
उपपीठं प्रकर्तव्यं मञ्चकाद्युक्तमार्गतः ॥ ९ ॥
उपपीठबहिर्भागमपदाङ्गणमीरितम् ।
तदैशान्यां प्रकर्तव्यो वारिमार्ग उदङ्मुखः ॥ १० ॥
अङ्गणेन मुखायामहीनेनाष्टकृतेः पदम् ।
कृत्वा पदद्वयं त्यक्त्वा सौम्ये प्रा[५]च्यां पदं त्यजेत् ॥ ११ ॥
पदेऽन्यस्मिन् प्रकर्तव्यं मल्लिकाकुट्टिमं बुधैः ।
उपपीठादिसंयुक्तं तुर्यश्रं ध्वजयोनिकम् ॥ १२ ॥
विस्तारसम उत्सेधः पादोनं वा यथोचितम् ।
गृहाद्यङ्गानुरूपेण कर्तव्यं मञ्चकादिभिः ॥ १३ ॥
अथातः संप्रवक्ष्यामि रचनां सर्ववेश्मनाम् ।
गृहाणां करणे शस्ते मुहूर्ते स्थपतिः स्वयम् ॥ १४ ॥