पृष्ठम्:वास्तुविद्या.pdf/६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वादशोऽध्यायः । नमस्तुभ्यं भगवते मारुताय महात्मने । धूलीनिरोधनं कर्तुं प्रसादं कुरु मे प्रभो ! ॥ २११ ॥ यवात्यष्टिमितव्यासा पट्टिका कथिता बुधैः 1 यवानां नवकं प्रोक्तं बहलं शिल्पकोविदैः || २२१ ॥ बहलात पादहीनं तु तासामन्तरमीरितम् । उत्तरेण प्रवक्ष्यामि वंशमानं यथाविधि ॥ २३३ ॥ अर्ध वा पादहीनं वा वंशस्योच्छ्रय मिष्यते । उच्छ्रयेण तथा तारमिति शास्त्रविदो विदुः ॥ २४ ॥ विकृतिलुपानां तासां सर्वासां सकलबहलसदृशतरा | परिधिः कूटस्येष्टा सा कथिता शिल्पशास्त्रज्ञैः ॥ २५१ ॥ यावत्यो विकृतिलपास्तावन्त्यश्राणि कूटस्य । वृत्तं वापि समस्तं तक्षणकुशलैस्तु कारयेन्मतिमान् ॥ २६३ ॥ व्यासार्धाधिकदीर्घे पादोनाक्षं तथैव नेत्रं वा । धुर्धूरप्रसवाभं कूदं कुर्यादघोर्मूलम् ।। २७१ ।। पट्टं किञ्चित् कुर्यात् कूटस्य लुपावितानतारसमम् । उत्तरवन्नैवोर्ध्वं पट्टमघश्चोर्ध्वतो हि घनम् ॥ २८३ ॥ तालोच्छ्योर्धमुदितमपिधानस्य विस्तृतम् । पादं वाप्यथ पादोनं कीर्तितं तदवाङ्मुखम् ॥ २९३ ॥ १. 'मुखम्' घ. ङ. पाउ पादं वाप्यर्ध पा' व. ङ. पाठः, २. 'यमपि ध्यानमुदितं तस्य विस्तरम् ।