पृष्ठम्:वास्तुविद्या.pdf/६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५८ वास्तुविद्यार्थी ततो पाकितं यत्र तत्र तत्राभिमन्त्रयेत् । एवं कृत्वा वान्ताप्लुपानां देशिकोत्तमः ॥ १४ ॥ प्रासादाभिमुख स्थित्वा विममुख्यैव तैः सह । नमस्तुभ्यं भगवते सर्वप्राणाय वायवे ॥ १५ ॥ धूलिकारोचमस्माभिः कृतं तदनुमोदताम् । सम्माध्यैवं चतुर्दिशु मदक्षिणवशात् ततः ॥ १६ ॥ देशिकेनाप्यनुज्ञातस्तैरपि द्विजसत्तमैः । स्थपतिः शिल्पिभिः साकं प्रणिपातपुरस्सरम् ॥ १७ ॥ कृताञ्जलिरिति प्रार्थ्य दिक्पालेशं तदाचरेत् ॥ १७३ ॥ नमोऽस्तु भूदेवपताम्बुजेभ्यो नमोऽस्तु देवाय चराचराय | एवं कृतयां खलु नीत्रपट्टयां धूलीनिरोधाय देयां ददातु ॥ १८३ ॥ स्थपतिस्तत् समुल शिल्पिभिश्च यथाक्रमम् | नीव्रान्तेषु समारोप्य वाद्यघोषेण भूयसा ॥ १९३ ॥ प्रणम्य पूर्व पवनं सदागति गुरुं गणेशं त्वथ देवता दिशाम् । विधाय पूजां विधिवत् समाप्य तं सम्प्रार्थ्य विद्धं तनुयात् सुकीलकैः ॥ २०३ ॥ १. 'तां तां ख' घ. ङ. पाठ.. २. 'ट्टिधू' घ. ङ. पाठः. ३. 'भवान् द' घ, ङ. पाठ:. ४. 'शुचिं गु' घ. ङ. पाठ: ५. 'चैवं मनुना विशु- द्धधीः ॥' घड. पाठः.