ततो लुपाङ्कितं यत्र तत्र तत्राभिमन्त्रयेत् ।
एवं कृत्वाथ नीव्रान्ताल्लुँपाना देशिकोत्तमः ॥ १४ ॥
प्रासादाभिमुख स्थित्वा विममुख्यैश्व तैः सह ।
नमस्तुभ्यं भगवते सर्वत्राणाय वायवे ॥ १५ ॥
धूलिकारोमस्माभिः कृतं तदनुमोदताम् ।
सम्प्रार्थ्यैवं चतुर्दिक्षु प्रदक्षिणवशात् ततः ॥ १६ ॥
देशिकेनाप्यनुज्ञातस्तैरपि द्विजसत्तमैः
स्थपतिः शिल्पिभिः सार्क प्रणिपातपुरस्सरम् ॥ १७ ॥
कृताञ्जलिरिति प्रार्थ्य दिक्पालेशं तदाचरेत् ॥ १७३ ॥
नमोऽस्तु भूदेवपदाम्बुजेभ्यो
नमोऽस्तु देवाय चराचराय ।
एवं कृता[१]यां खलु नीव्रपट्ट्यां[२]
धूलीनिरोधाय द[३]यां ददातु ॥ १८३ ॥
स्थपतिस्तत् समुद्धृत्य शिल्पिमिश्च यथाक्रमम् ।
नीव्रान्तेषु समारोप्य वाद्यघोषेण भूयसा ॥ ९९३ ॥
प्रणम्य पूर्व पवनं सदाग[४]तिं
गुरुं गणेशं त्वथ देवता दिशाम् ।
विधाय पूजां विधिवत् समाप्य तं
सम्प्रार्थ्य वि[५]द्धं तनुयात् सुकीलकैः || २०३ ||