पृष्ठम्:वास्तुविद्या.pdf/६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वास्तुविद्यायां यथा च फलकामध्ये तद्वद् भूमौ समालिखेत् । वेश्मप्रमाणसदृशं तन्महत्त्वेमुदीरितम् ॥ ४९ ॥ स्वस्वसूत्रे च फलकां सन्निधाप्य च पार्श्वतः । वलयाभिगतं सूत्रं वितानं तदालिखेत् ॥ ५० ॥ वितानतिर्यङ्मध्येन लम्बसूत्राणि पातयेत् । चतुर्विंशयवं किष्कुः पूर्व तत्र करः स्वयम् ॥ ५१ ॥ प्रमाणं साधनं यस्मात् तस्माद् भेदोऽत्र जायते । तच्छेषं पूर्ववत् सर्वे कर्तव्यं शिल्पकर्मणि ॥ ५२ ॥ इति वास्तुविद्यायां लुपाकरण नाम एकादशोऽध्यायः । अथ द्वादशोऽध्यायः । उत्तरस्य तु विष्कम्भे दशभागकृते पुनः । अष्टांशान्नीव्रपट्टिः : स्यात् सप्तार्धा वाथ सप्त वा ॥ १ ॥ बहलं तन्चिभागकं व्यासमष्टांशकं भवेत् । ऊर्ध्वपट्टे त्रिभागं वा मध्ये तच्चतुरंशकम् ॥ २ ॥ क्षुद्रवाजनमेकांशमथ पञ्चांशके कृते । व्यासे वाजनमश्व्यंशं त्रिभागं घनमुच्यते ॥ ३ ॥ १. 'त्वोदयादिकम् ॥' ग. पाठः, २. 'पार्श्वेऽथ फ' ग. घ. ङ. पाठः ३. 'दि' ग. घ. ङ. पाठः,