पृष्ठम्:वास्तुविद्या.pdf/६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकादशोऽध्यायः । वंशोपान्तवितानान्तं वलयान्निम्नमिष्यते । वितानाभ्यन्तराग्रे तु सूत्रमूर्ध्वमुखं लिखेत् ॥ ४० ॥ सूत्रादूर्ध्वं परित्याज्यं व्याससंकोचमिष्यते । ध्वजाद् बहिर्गतं त्याज्यं सज्यचापाकृतिर्भवेत् ॥ ११ ॥ कुक्षिनिम्नं च सर्वासां तहदेव प्रकीर्तितम् । अर्धचन्द्राभमेवैतदित्याहुस्तदथापरे ॥ ४२ ॥ पुच्छाकारं तथैव स्यादुत्तानधनुषा समम् । नीव्रान्तकुक्षिनिम्नं तु जङ्घापृष्ठवदाचरेत् ॥ ४३ ॥ तदूर्ध्वमेव चापाभं नैतज्जातु समाचरेत् । लुपालुपान्तरं नीब्रस्थाने स्यात् करमानेतः ॥ १४ ॥ प्रायशः कथितं सद्भिः किञ्चिदूनाधिकेन वा । युग्माश्चैव लुपाः कार्या मध्येनायामतारयोः ॥ ४५ ॥ लुपानामपि सर्वासां खण्डीबाहल्यमुच्यते । सप्ताङ्गुलान्तं सर्वत्र स्वस्वव्यासार्धमानतः ॥ ४६ ॥ अष्टाङ्गुलं त्र्यङ्गुलं स्याद् यवपञ्चकसंयुतम् । एवमङ्गुलवृद्ध्या तु यववृद्ध्या तदूर्ध्वतः ॥ १७ ॥ अथवा मन्दबुद्धीनां क्रियासौकर्यसिद्धये । पक्षान्तरेण संक्षिप्य वक्ष्येऽहं लक्षणं पुनः ॥ ४८ ॥ ५५ १. 'मलं लि' घ. ङ. पाठः. २. 'त्र' ग. पाठ:. ९. 'व' घ ४. 'द्धि' घ. ङ., 'द्धि' ख. पाठः, ङ. पाठः.