कुक्षिस्थध्वजयोगेन पृष्ठान्तं सूत्रमालिखेत् ।
तद्व[१]त् तिर्यग्गतं चैकमेवं पार्श्वान्तरेऽपि च ॥ ३१ ॥
सर्वा[२]सामपि पूर्वोक्तस्थानेष्वेवं समालिखेत् ।
गतिमानेन गमनं पूर्ववत् परिकीर्तितम् ॥ ३२ ॥
आयाममुक्तमानेन व्यासं वलयमानतः ।
सुषिरं वलयस्यैवं कुर्याच्छास्त्रविशारदः ॥ ३३ ॥
अधोमू[३]लाश्चोर्ध्वकेशा लुपाः सर्वाः प्रकीर्तिताः।
स्वस्वाब्ध्यंशैकसहितं पुच्छव्यासमुदाहृतम् ॥ ३४ ॥
लुपामूले च कर्तव्यं सूत्रमेकं वितानकम् ।
छिन्द्यात् परशुना तत्र पश्चात् तक्षणमाचरेत् ॥ ३५ ॥
लुपामूलं[४] वितानाग्रे तिर्यक् कुक्षौ समालिखेत् ।
लुपाबहलतुल्यं तदायतं परिकीर्तितम् ॥ ३६ ॥
तस्य तिर्यग्गतं चापि वितानवदथालिखेत् ।
निम्नं तत् प्रतिकर्तव्यमेवं द्वितयमानतः ॥ ३७ ॥
तद्वच्छित्त्वा परित्याज्यं यावद् वलयलम्बतः ।
एवं वलययोर्मध्ये वलयोत्तरयोरपि ॥ ३८ ॥
वलयोपान्तखण्डी या तूत्तरे त्रिगुणा स्मृता ।
पूर्ववच्चोर्ध्वतः कुर्यान्निम्नं चापि तथैव च ॥ ३९ ॥