पृष्ठम्:वास्तुविद्या.pdf/६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

3 विद्या कुक्षिस्थध्वजयोगेन पृष्ठान्तं सूत्रमालिखेत् । तद्वैत तिर्यग्गतं चैकमेवं पार्श्वान्तरेऽपि च ॥ ३१ ॥ सर्वोसामपि पूर्वोक्तस्थानेष्वेवं समालिखेत् । गतिमानेन गमनं पूर्ववत् परिकीर्तितम् ॥ ३२ ॥ आयाममुक्तमानेन व्यासं वलयमानतः । सुषिरं वलयस्यैवं कुर्याच्छास्त्रविशारदः ॥ ३३ ॥ अधोमैलाश्चोर्ध्वकेशा लुपाः सर्वाः प्रकीर्तिताः । स्वस्वाब्ध्यंशैकसहितं पुच्छव्यासमुदाहृतम् ॥ ३४ ॥ ॥ लुपामूले च कर्तव्यं सूत्रमकं वितानकम् । छिन्द्यात् परशुना तत्र पश्चात् तक्षणमाचरेत् ॥ ३५ ॥ लुपामूलं विताना तिर्यक् कुक्षौ समालिखेत् । लुपाबहलतुल्यं तदायतं परिकीर्तितम् ॥ ३६ ॥ तस्य तिर्यग्गतं चापि वितानवदथालिखेत् । निम्नं तत् प्रतिकर्तव्यमेवं द्वितयमानतः ॥ ३७ ॥ तद्वच्छित्वा परित्याज्यं यावद् वलयलम्बतः । एवं वलययोर्मध्ये वलयोत्तरयोरपि ॥ ३८ ॥ वलयोपान्तखण्डी या तूत्तरे त्रिगुणा स्मृता । पूर्वबञ्चोर्ध्वतः कुर्यान्निम्नं चापि तथैव च ॥ ३९ ॥ १. 'त' घ. ङ. पाठः २. 'वैषाम' क. ग. पाठः, ३. 'मुखाश्चो' क. पाठ.. ४. 'ले' घ., 'ल' ख. पाठः