पृष्ठम्:वास्तुविद्या.pdf/६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकादशोऽध्यायः । गतिमानं तु सर्वत्र वलये तिर्यगन्तरम् । वलयार्धे तु कृतयोः सूत्रयोरन्तरं तु यत् ॥ २२ ॥ तदन्तरे स्थितानां तु लुपानां यद्यदायतम् । सुषिरायाममानानि कीर्तितानीह तानि वै ॥ २३ ॥ व्यासार्धसूत्रयोर्मध्ये सूत्रमेकं निधापयेत् । • अधःसूत्रान्मध्यसूत्रं चूलिकाव्यासमानतः ॥ २४ ॥ तत् सूत्रं शिल्पशास्त्रेषु ध्वजसूत्रं विदुर्बुधाः । ध्वजसूत्राद्धोभागं ध्वजाभ्यन्तरमिष्यते ॥ २५ ॥ कर्णादिकोटिसूत्रान्तं सूत्राणां पार्श्वयोः पृथक् । लुपानां व्याससदृशं प्रत्येकं त्वपरं स्मृतम् ॥ २६ ॥ पुरा लिखितसूत्राणि ध्वजसूत्राणि कल्पयेत् । ध्वजाभ्यन्तरयोर्मध्ये यद्यन्मानानि तान्यपि ॥ २७ ॥ वितानलम्बसूत्राणां मानानीति विदुर्बुधाः । मषीमिलितसूत्रेण लुपाफलकपार्श्वयोः ॥ २८ ॥ ध्वजसूत्रं प्रकर्तव्यं सर्वासां शिल्पकोविदैः । वितानलम्बयोर्मानं ध्वजसूत्रादि विन्यसेत् ॥ २९ ॥ मानाग्रोदरसंयोगौ जायेते दशयोर्ययोः । तत्र बिन्दू विधातव्यौ मूलयोगे च विन्यसेत् ॥ ३० ॥ 5. १. 'लुपाभ्य' ख. घ. ङ. पाठः, २. 'श्रो' क. ग. पाठः ३. 'देशे च' ङ. पाठः.