सामग्री पर जाएँ

पृष्ठम्:वास्तुविद्या.pdf/६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५२
वास्तुविद्यायाम

तदन्तरालगा याच उपकोट्यादयः स्मृताः ।
उत्तरस्य त्वधोदेशे सूत्रद्वितयमालिखेत् ॥ १२ ॥
प्रकृतिव्याससदृशं विकृतिव्याससिद्धये ।
लम्बसूत्रकमारभ्य कर्णसूत्रगतं तु त[]त् ॥ १३ ॥
लम्बादिकर्णपर्यन्तसूत्राणां यद्यदायतम् ।
सूत्रयोरन्तरस्थानां तत्तद्यासा लुपाः स्मृताः ॥ १४ ॥
कर्णसूत्रादिकोट्यन्तं सूत्रद्वितयमालिखेत् ।
सूत्रयोरन्तरं[] तत्र चतुरङ्गुलमिष्यते ॥ १५ ॥
कर्णादिकोटिपर्यन्तसूत्राणां यद्यदायतम् ।
तयोरन्तरसंस्थानां तत्तदायामसाधनम् ॥ १६ ॥
तारार्ध हस्तमानं चेन्मानषट्कमिता लुपा ।
त्रैराशिकेन विज्ञेया ह्यूने चाप्यधिके बुधैः ॥ १७ ॥
उत्तरस्योर्ध्वतः क्वापि रेखाद्वितयमालिखेत् ।
वलयस्य तु बाहल्यं समं स्यादन्तरं तयोः ॥ १८ ॥
लम्बादिकर्णपर्यन्तसूत्राणामभितः पृथक् ।
सूत्राणि बहलार्धेन लुपानां कीर्तितानि वै ॥ १९ ॥
वलयस्य तु सूत्रेण कर्णसूत्रयुतिर्यतः ।
तत आरभ्य पार्श्वस्थसूत्रान्तं तिर्यगालिखेत् ॥ २० ॥
तदन्तर्गतसूत्रेष्वप्येवमेव समालिखेत् ।
लम्बसूत्रविशेषो न तिर्यग्वलयसूत्रयोः ॥ २१ ॥


  1. 'य' क. पाठः.
  2. 'रस्यात्र' क. पाठः