पृष्ठम्:वास्तुविद्या.pdf/६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

2 वास्तुविद्यायाम् तदन्तरालगा याश्च उपकोट्यादयः स्मृताः । उत्तरस्य त्वधोदेशे सूत्रद्वितयमालिखेत् ॥ १२ ॥ प्रकृतिव्याससदृशं विकृतिव्याससिद्धये । लम्बसूत्रकमारभ्य कर्णसूत्रगतं तु तेत् ॥ १३ ॥ लम्बादिकर्णपर्यन्तसूत्राणां यद्यदायतम् । सूत्रयोरन्तरस्थानां तत्तड्यासा लुपाः स्मृताः ॥ १४ ॥ कर्णसूत्रादिकोट्यन्तं सूत्रद्वितयमालिखेत् । सूत्रयोरन्तरं तत्र चतुरङ्गुलमिष्यते ॥ १५ ॥ कर्णादिकोटिपर्यन्तसूत्राणां यद्यदायतम् । तयोरन्तरसंस्थानां तत्तदायामसाधनम् ॥ १६ ॥ तारार्ध हस्तमानं चेन्मानषटुमिता लुपा । त्रैराशिकेन विज्ञेया ह्यूने चाप्यधिके बुधैः ॥ १७ ॥ उत्तरस्योर्ध्वतः कापि रेखाद्वितयमालिखेत् । वलयस्य तु बाहल्यं समं स्यादन्तरं तयोः ॥ १८ ॥ लम्बादिकर्णपर्यन्तसूत्राणामभितः पृथक् । सूत्राणि बहलार्धेन लुपानां कीर्तितानि वै ॥ १९ ॥ वलयस्य तु सूत्रेण कर्णसूत्रयुतिर्यतः । तत आरभ्य पार्श्वस्थसूत्रान्तं तिर्यगालिखेत् ॥ २० ॥ तदन्तर्गतसूत्रेप्वप्येवमेव समालिखेत् । लम्बसूत्रविशेषो न तिर्यग्वलयसूत्रयोः ॥ २१ ॥ १. 'य' क. पाठ: २. 'रस्यात्र' क. पाठः.