पृष्ठम्:वास्तुविद्या.pdf/५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकादशोऽध्यायः । पादार्धे नीवलम्बं च प्रायेण कथितं बुधैः । पादायामं विभज्याथ नन्दशैलशराश्विभिः ॥ ३ ॥ अब्धिरामाश्विसोमांशैः कमानीवस्य लम्बनम् | उत्तरस्य तु विष्कम्भं बुद्ध्या निश्चितैमालिखेत् ॥ ४ ॥ तारार्धेऽप्यूर्ध्वगां रेखां यावद् द्व्यंशायतां लिखेत् । तयोः कर्णगतं सूत्रं वंशान्नीव्रान्तमालिखेत् ॥ ५ ॥ भुजाकोट्यन्तरालेन पङ्किभेदान् प्रकल्पयेत् । वंशादारभ्य नीव्रान्तं प्रत्येकं पङ्किषु क्रमात् ॥ ६ ॥ पङ्किमध्येषु सूत्राणि सर्वेष्वपि समालिखेत् । कूटस्य लम्बसूत्रस्य समीपतरवर्ति यत् ॥ ७ ॥ गणयित्वा तदायामं यत् प्रमाणं तदुत्तरे । सन्निधाप्य तु तस्यान्ते कर्णसूत्रं समालिखेत् ॥ ८ ॥ लम्बसूत्रोपसूत्रस्य समीपतरपति यत् । ३ तन्मानं पूर्ववत् स्थाप्य लम्बसूत्रादिनोत्तरे ॥ ९ ॥ तदन्तेऽप्यालिखेत् कर्णे पुनरन्यत् ततोऽपरम् । कूटोत्तराग्रयोः कर्णगतां तां प्रकृतिं विदुः ॥ १० ॥ तन्मानभुजयोः कर्णरेखा या लिखिता पुरा । सा रेखा शिल्पशास्त्रज्ञैः कोटिरित्यभिधीयते ॥ ११ ॥ 5 १. 'त्य संलि' क. ग. पाठः. २. 'वर्ति य' क. ग. पाठः, ३. 'चो' घ. ङ. पाठ:. ४. 'र्ण गतानां म' क. पाठः,