पृष्ठम्:वास्तुविद्या.pdf/५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशमोऽध्यायः । लुपाव्यासेन तुर्यश्रं वलयस्थानमालिखेत् । प्रकृतिव्यासतो व्यासमायताश्रं ततो भवेत् ॥ १६ ॥ तस्य कर्णगतं सूत्रं वितानमिति कथ्यते । तस्य तिर्यग्गतं सूत्रं लम्बसूत्रं विदुर्बुधाः ॥ १७ ॥ लम्बसूत्राद् गतिस्तस्य वलयस्याथ कथ्यते । बहलार्धे तु गमनं कोटौ सर्वत्र कीर्तितम् ॥ १८ ॥ व्यासार्धे यत्र दृश्यन्ते लुपानां पतयः कति । लुपाबहलतोऽप्यर्षे तावत् पङ्किः प्रकल्प्यते ॥ १९ ॥ तस्य लम्बं समारभ्य उपकोट्यन्तरं तु यत् । तत् तस्य गमनं प्रोक्तमेवमन्यत्र कल्पयेत् ॥ २० ॥ लुपानां प्रकृतिंभागेऽप्यन्तर्गमनमीरितम् । कोटिभागे तु गमनं लम्बसूत्राद् बहिर्गतम् ॥ २१ ॥ तुर्यश्रं सुषिरं कुर्याद् वलयस्य प्रमाणतः । चतुर्दशयवं प्रोक्तं प्रायेण वलयं बुधैः ॥ २२ ॥ त्र्यङ्गुलं वात्र कर्तव्यं बाहल्यं द्व्यङ्गुलं तु वा । सार्धाङ्गुलं वा कर्तव्यं यथाशोभं यथोचितम् ॥ २३ ॥ वलयस्य तु मानेन तुर्यश्रं कल्पयेद् बुधः । अत्र तारार्धगानां तु लुपासूत्राणि पातयेत् ॥ २४ ॥ १. 'धे' क. ग. पाठः. २. 'थारुचि ॥' क. ग. पाठः, ४९