सामग्री पर जाएँ

पृष्ठम्:वास्तुविद्या.pdf/५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४९
दशमोऽध्यायः ।

लुपाव्यासेन तुर्यश्रं वलयस्थानमालिखेत् ।
प्रकृतिव्यासतो व्यासमायताश्रं ततो भवेत् ॥ १६ ॥
तस्य कर्णगतं सूत्रं वितानमिति कथ्यते ।
तस्य तिर्यग्गतं सूत्रं लम्बसूत्रं विदुर्बुधाः ॥ १७ ॥
लम्बसूत्राद् गतिस्तस्य वलयस्याथ कथ्यते ।
बहलार्ध तु गमनं कोटौ सर्वत्र कीर्तितम् ॥ १८ ॥
व्यासार्धे यत्र दृश्यन्ते लुपानां पङ्क्तयः कति ।
लुपाबहलतोऽप्यर्धं[] तावत् पङ्क्तिः प्रकल्प्यते ॥ १९ ॥
तस्य लम्बं समारभ्य उपकोट्यन्तरं तु यत् ।
तत् तस्य गमनं प्रोक्तमेवमन्यत्र कल्पयेत् ॥ २० ॥
लुपानां प्रकृतिंभागेऽप्यन्तर्गमनमीरितम् ।
कोटिभागे तु गमनं लम्बसूत्राद् बहिर्गतम् ॥ २१ ॥
तुर्यश्रं सुषिरं कुर्याद् वलयस्य प्रमाणतः ।
चतुर्दशयवं प्रोक्तं प्रायेण वलयं बुधैः ॥ २२ ॥
त्र्यङ्गुलं वात्र कर्तव्यं बाहल्यं द्वङ्गुलं तु वा ।
सार्धाङ्गुलं वा कर्तव्यं यथाशोभं यथो[]चितम् ॥ २३ ॥
वलयस्य तु मानेन तुर्यश्रं कल्पयेद् बुधः ।
अत्र तारार्धगानां तु लुपासूत्राणि पातयेत् ॥ २४ ॥


  1. 'र्धे' क. ग. पाठः
  2. 'थारुचि ॥' क. ग. पाठः,