सामग्री पर जाएँ

पृष्ठम्:वास्तुविद्या.pdf/५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४८
वास्तुविद्यायां

प्रत्येकं स्वगुणीकृत्य पृथग्वंशकृतौ युतम् ।
तन्मूलं तु लुपामानमेवं सर्वत्र कल्पयेत् ॥ ७ ॥
उत्तरान्नीवलम्बं यत् तेन तत्रापि कल्पयेत् ।
प्रमाणमेवं सर्वत्र लुपानां कीर्तितं बुधैः ॥ ८ ॥
तारार्ध स्वगुणीकृत्य वंशोच्चकृतिसंयुतम् ।
चूलिकामध्यमात् कीलाद् यद्यदिष्टलुपान्तरम् ॥ ९ ॥
तदपि स्वगुणीकृत्य तारार्धोच्च कृतं युतम् ।
तत्तदिष्टलुपायाममिष्टयोगात् प्रकल्पयेत् ॥ १० ॥
ध्वजसूत्रं तु कर्तव्यमामूलाग्रं तु पार्श्वयोः ।
सूत्रादभ्यन्तरं कार्यं चूलिकाव्यासमानतः ॥ ११ ॥
उत्तरान्नीव्रपर्यन्तलुपायामं विचक्षणः ।
कुर्यान्ननेत्रांशतो नीव्राद् वलयं बाणभागतः ॥ १२ ॥
त्रिधा विभक्ते कर्तव्ये विताने पर्वणोर्द्वयोः ।
उत्तराद् वंशमानं यत् पञ्चधा विभजे[१]द् बुधः ॥ १३ ॥
वलयोत्तरयोर्मध्यं कर्तव्यं नेत्रभागतः ।
रामांशमूर्ध्वतः कार्यमथवा शैलभाजिते ॥ १४ ॥
वलयोत्तरयोर्मध्यं नेत्रं वलययोरपि ।
रामांशमूर्ध्वतः कार्य * स्थानानि वलयस्य तु ॥ १५ ॥

  • अङ्कनीयानीति शेषः ।

  1. ↑ 'जेद् जगत् । ' घ. ङ. पाठः