सामग्री पर जाएँ

पृष्ठम्:वास्तुविद्या.pdf/५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४७
दशमोऽध्यायः ।

तदूर्ध्वपट्टं रजनीकरांशं
 प्रतिर्गुणांशैर्गलमञ्चकं स्यात् ॥ २५ ॥
इति वास्तुविद्यायां पादमानकथनं नाम
नवमोऽध्यायः ।


अथ दशमोऽध्यायः ।
अथ संक्षिप्य वक्ष्यामो लुपानां लक्षणं वयम् ।
उत्तरस्यानुरूपेण तासां तारमुदीरितम् ॥ १ ॥
तत्समं पादहीनं वा वस्वंशोनाधिकेन वा ।
पादाधिकं वा वस्वंशत्रितयाधिकमेव वा ॥ २ ॥
विस्तारार्धादिकं वा स्याद् व्यासमेवं प्रकीर्तितम् ।
सार्धाङ्गु[]लं समारभ्य यावदृत्वङ्गुलान्तकम् ॥ ३ ॥
लु[]पानामंशवृह्या तु बाहल्यं यववृद्धितः ।
प्रकृतिव्यास सदृशं तुर्यश्रं कल्पयेद् बुधः ॥ ४ ॥
तारार्धगतसूत्राणि लुपानामपि कल्पयेत् ।
तस्य कर्णादिना तारं कोट्यादीनां प्रकीर्तितम् ॥ ५ ॥
वंशोच्चमुत्तरा[]न्तं यत् खेनैव गुणयेद् बुधः ।
यदायतानि स्थानानि लुपानां वंशलम्बतः ॥ ६ ॥


  1. 'लं तु बाहल्यं या' घ ङ. पाठः.
  2. 'शिष्टाना' ङ. पाठः
  3. 'शिष्टाना' ङ. पाठः