पृष्ठम्:वास्तुविद्या.pdf/५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशमोऽध्यायः । तदूर्ध्वप रजनीकरांश प्रतिर्गुणांशैर्गलमञ्चकं स्यात् ॥ २५ ॥ इति वास्तुविद्यायां पादमानकथनं नाम नवमोऽध्यायः । अथ दशमोऽध्यायः । अथ संक्षिप्य वक्ष्यामो लुपानां लक्षणं वयम् । उत्तरस्यानुरूपेण तासां तारमुदीरितम् ॥ १ ॥ तत्समं पादहीनं वा वस्त्रंशोनाधिकेन वा । पादाधिकं वा वस्त्रंशत्रितयाधिकमेव वा ॥ २ ॥ विस्तारार्धादिकं वा स्याद् व्यासमेवं प्रकीर्तितम् । सार्घाङ्गुलं समारभ्य यावदृत्वङ्गुलान्तकम् ॥ ३ ॥ लुपानामंशवृद्ध्या तु बाहल्यं यववृद्धितः । प्रकृतिव्याससदृशं तुर्यश्रं कल्पयेद् बुधः ॥ ४ ॥ तारार्धगतसूत्राणि लुपानामपि कल्पयेत् । तस्य कर्णादिना तारं कोट्यादीनां प्रकीर्तितम् ॥ ५ ॥ वंशोच्चमुत्तरान्तं यत् स्खेनैव गुणयेद् बुधः । यदायतानि स्थानानि लुपानां वंशलम्बतः ॥ ६॥ 3 १. 'लं तु बाहल्यं या घ. ङ. पाठः २. 'शिष्टाना' ङ. पाठ:. ३. 'राद्यत् तत् ' ग. घ. ङ. पाठः,