ऊर्ध्वपट्टं तथा द्वाभ्यामष्टाश्रकरणं तु य[१]त् ।
वेदिकोत्सेधमेवं स्यात् षडंशीकृत्य भागशः ॥ १७ ॥
एकांशं प्रतिपट्टे स्यादंशाभ्यामन्तरी भवेत् ।
ऊर्ध्वपट्टं तदेकांशमन्तरी कुसुमैर्युता ॥ १८ ॥
वेदिकेयं तु सामान्या कुट्टिमानां प्रकीर्तिता ।
प्रतिक्रमस्य चोत्सेधे चतुर्विंशतिभाजिते ॥ १९ ॥
त्रिभागं पादुकं विद्यादष्टांशं जगतिर्भवेत् ।
कैरवं सप्तभागं स्यात् षडंशैः प्रतिरुच्यते ॥ २० ॥
प्रतेरुच्छ्रयमेवं तु दशभागकृते पुनः ।
त्रिभिः कैरवपट्टं स्याद् द्वाभ्यां तत्कण्ठपट्टिका ॥ २१ ॥
अन्तरी त्रिभिरंशैः स्याद् द्वाभ्यां वाजनमिष्यते ।
सिंहव्यालगजेन्द्रादिप्रतिलक्षणभूषितम् ॥ २२ ॥
वेदिकां[२] प्रस्तरसमां[३] षडंशीकृत्य भागशः ।
एकांशं प्रतिपट्टं स्यादंशाभ्यामन्तरी भवेत् ॥ २३ ॥
ऊर्ध्ववाजनमेकांशमंशं तत्पट्टिका भवेत् ।
ऊर्ध्वपट्टं तदेकांशमन्तरी कुसुमैर्युता ॥ २४ ॥
जन्म द्विभागं वसुतश्च जङ्घा
तत्पट्टिकांशेन गलं द्विभागम् ।