पृष्ठम्:वास्तुविद्या.pdf/५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नवमोऽध्यायः । एतेषां नामरूपाणि तत्तदंशवशाद् विदुः । मञ्चकस्योच्छ्रयं कुर्यान्नवभागं विचक्षणः ॥ ७ ॥ यंशं तु पादुकं विद्यात् सप्तांशं कुट्टिमं भवेत् । द्वादशांशकृतोत्सेधे द्विभागं पादुकं विदुः ॥ ८ ॥ सप्तांशं कुट्टिमोत्सेधं रामांशैः प्रतिरुच्यते । त्रिवर्गमिति संज्ञा स्यात् केचिदेवं विदुर्बुधाः ॥ ९ ॥ प्रतिमञ्चकनामैतन्नृणां साधारणं विदुः । पञ्चभागकृतोत्सेधेऽप्येकांशं पादुकं भवेत् ॥ १० ॥ द्विभागा जगतिस्तस्य कण्ठमंशेन कारयेत् । प्रतेरुच्छ्रयमेकेन नाम्ना तद्गलमञ्चकम् ॥ ११ ॥ सूर्याशं तु कृतोत्सेधं यंशं तत्पादुकं भवेत् । षडंशं कुट्टिमं विद्याद् गलं झंशं तु कारयेत् ॥ १२ ॥ यंशं तत्प्रस्तरं विद्याद् गलमञ्चं तदीरितम् । समिदंशकृतोत्सेधे त्रिभागं पादुकं भवेत् ॥ १३ षड्भागा जगतिस्तस्य कुमुदं दर्शनांशकम् । तत्पट्टिकैकभागेन भागाभ्यामन्तरी भवेत् ॥ १४ ॥ प्रतिपट्टं तदेकांशमंशाभ्यां प्रतिरुच्यते । पादबन्धमिति प्रोक्तं शुभदं सर्ववर्णिनाम् ॥ १५ ॥ कुमुदस्याप्यलङ्कारं वक्ष्ये तद्दर्शनांशकैः । अधःपट्टं तदेकांशं मध्यं तत् त्रिभिरंशकैः ॥ १६ ॥ १. 'पादुकमानं तु स' क. ग. पाठः, $ २ 'ते । प्र' क. ख. ग. ङ. पाठः.