शिलाबद्धमसूरं[१] च सुधामिलितभित्तिकम् ।
पञ्चैतान्यपि निन्द्यानि दृश्यन्ते नरसद्मनि ॥ ५८ ॥
इति वास्तुविद्यायां शालाविधानं नाम
अष्टमोऽध्यायः ।
'अथ नवमोऽध्यायः ।
अथ वक्ष्यामि संक्षेपात् पादमानं यथाविधि ।
उत्तरोपानहोर्मध्यगतमेत[२]त् प्रकीर्तितम् ॥ १ ॥
त्रिकराद्यङ्गुलीषट्कवर्धमानं ततस्ततः ।
यथाशोभं यथायोग्यं कारयेन्मर्त्यसद्मनि ॥ २ ॥
तचिभागैकमाद्यंशमंशाभ्यां पादमिष्यते ।
चतुर्भागैकभागं वा बाणांशैरेकभागकम् ॥ ३ ॥
त्रयोविंशतिसप्तांशमष्टांशं वा मसूरकम् ।
चतुर्विंशतिसप्तांश[३]मेकोनविंशदाशुगम् ॥ ४ ॥
त्रयोदशचतुर्भागमष्टादशशरांशकम् ।
समिद्रसांशमाद्यङ्गं पादं पञ्चदशांशकम् ॥ ५ ॥
त्रयस्त्रिंशति पङ्कयंशस्त्रिंशदष्टांशकं भवेत् ।
एवमाद्यंशमानानि यथायोगं[४] च कारयेत् ॥ ६ ॥