पृष्ठम्:वास्तुविद्या.pdf/५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमोऽध्यायः । शयितानां तु सर्वेषां मूलमाधारमुच्यते । द्रव्याणामग्रमाधेयं सन्धौ च परिकल्पितम् ॥ ४९ ॥ बलाबलवशाद् भेदो दीर्घव्यासादिके भवेत् । यत्र यद्धस्तसंख्या स्याद् यत्र यद्योनिसम्भवः ॥ ५० ॥ तस्याङ्गित्वं बलिष्ठत्वमाधारत्वं तथैव च । तदङ्गानि तदन्यान्यप्याधेयानि यथाबलम् ॥ ५१ ॥ उत्तराग्रं च पूर्वाग्रं सर्वेषां परिकल्पितम् । मूलं मूलेन सन्दध्यान्नाग्रमग्रेण योजयेत् ॥ ५२ ॥ मूलयोरग्रयोः सन्धिः स्थाननाशाय कल्पते । व्यासदीर्घककोणेषु नैतद् दोषकरं भवेत् ॥ ५३ ॥ ईशाने चाग्रमग्रेण मूलेनाग्रं तु पावके । मूलं मूलेन निऋतौ मूलमत्रेण मारुते ॥ ५४ ॥ पृष्ठभागं ततः कुर्यात् तुर्यश्रं भिन्नसन्धिषु । पदोनं पादमर्धे च वदन्ति कतिचिद् बुधाः ॥ ५५ ॥ व्यासार्धबहलं कुर्यान्मानोन्मानप्रमाणवित् । प्रायशश्चूलिकादीनां व्यासेनैव विधीयते ॥ ५६ ॥ रूपोत्तरस्य तु क्वापि क्षुद्रवाजनमिष्यते । अङ्ग्रेस्तथा मध्यखण्डमारूढं भूषणाय्र च ॥ ५७ ॥ 300 १. 'तारेषु' घ. ङ., 'कर्णेषु' ख. पाठः.. २. 'षु । व्या' क.ग, ङ, पाठ,