यथाकमं प्रयोक्तव्यं कीलपार्श्व तु दक्षिणे[१] ।
सन्धिखण्डस्य दैर्ध्य तु स्वव्याससममुच्यते ॥ ३९ ॥
अर्ध वा पादहीनं वा योग्यायोग्यं च कारयेत् ।
महीरुहाङ्घ्रिसन्धौ च खण्डं कार्य घनांशकैः ॥ ४० ॥
एकेनापि तथा द्वाभ्यां त्रितयेनापि दृश्यते ।
स्तम्भानात् तद्गतिस्तस्मादाधारेऽधःशिखान्तरी ॥ ४१ ॥
स्तम्भविष्कम्भतो मध्ये न सन्धेयं कदाचन ।
दक्षिणेऽपि च वामे वा स्तम्भचूडान्त (कं?गं) तु यत् ॥ ४२ ॥
सन्धिमध्यं नियोज्यं स्यात् तदेवं संपदां पदम् ।
अथवा पादविष्कम्भदलेन चतुरंशिते ॥ ४३ ॥
एकांशमथवा यंशं त्र्यंशं वा गमयेत् तथा ।
सन्धावाधेयकस्याग्रं श्रुतिशास्त्रविदो विदुः ॥ ४४ ॥
अन्योन्यसन्धिवेधेऽपि कीलवेधं विशेषतः ।
मृत्युदं समसन्धि च वर्जयेन्नरसद्मनि ॥ ४५ ॥
कीलं च पादविष्कम्भवखेकांशं च योजयेत् ।
न[२]न्दांशमथव[३]त्वैशं बहलं तु तदर्धतः ॥ ४६ ॥
पो[४]तिका तु त्रिधा ज्ञेया नामभेदेन दै (र्ध?र्ध्य) तः ।
त्रिदण्डा च चतुर्दण्डा पञ्चदण्डा यथाक्रमम् ॥ ४७ ॥
महार्णवी च चित्री च पत्री च प्रतिलोमतः ।
ओमा विष्कम्भतः कार्या पादेनार्धेन वा युता ॥ ४८ ॥