पृष्ठम्:वास्तुविद्या.pdf/५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वास्तुविद्यायाम् तु यथाक्रमं प्रयोक्तव्यं कीलपार्श्व व दक्षिणे । सन्धिखण्डस्य दैर्ध्य तु स्वव्याससममुच्यते ॥ ३९ ॥ अर्ध वा पादहीनं वा योग्यायोग्यं च कारयेत् । महीरुहाङ्‌ङ्घ्रिसन्धौ च खण्डं कार्य घनांशकैः ॥ ४० ॥ एकेनापि तथा द्वाभ्यां त्रितयेनापि दृश्यते । स्तम्भाग्रात् तद्गतिस्तस्मादाधारेऽधः शिखान्तरी ॥ ४१ ॥ स्तम्भविष्कम्भतो मध्ये न सन्धेयं कदाचन । दक्षिणेऽपि च वामे वा स्तम्भचूडान्त (कं? गं) तु यत् ॥ ४२ ॥ सन्धिमध्यं नियोज्यं स्यात् तदेवं संपदां पदम् । अथवा पादविष्कम्भदलेन चतुरंशिते ॥ ४३ ॥ एकांशमथवा ग्रंशं त्र्यंश वा गमयेत् तथा । सन्धावाधेयकस्याग्रं श्रुतिशास्त्रविदो विदुः ॥ ४४ ॥ 'अन्योन्य सन्धिवेधेऽपि कीलवेधं विशेषतः । मृत्युदं समसन्धि च वर्जयेन्नरसद्मनि ॥ ४५ ॥ कीलं च पादविष्कम्भवखेकांशं च योजयेत् । नन्दांशमथववशं बहलं तु तदर्धतः ॥ ४६ ॥ पोतिका तु त्रिधा ज्ञेया नामभेदेन दै(६? र्ध्य) तः | त्रिदण्डा च चतुर्दण्डा पञ्चदण्डा यथाक्रमम् ॥ ४७ ॥ महार्णवी च चित्री च पत्री च प्रतिलोमतः । ओमा विष्कम्भतः कार्या पादेनार्धेन वा युता ॥ ४८ ॥ ४२ १. 'णम् ।' घ. ङ. पाठः २. 'सप्तांश' घ. ङ. पाठः, ३. 'वा त्र्यंश' घ. ङ. पाठः. ४. 'बोधिका' ग. घ. ङ. पाठः.