पृष्ठम्:वास्तुविद्या.pdf/४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमोऽध्यायः । शेषस्तु व्यययोनी च भवतश्च यथाक्रमम् । विष्टिर्मरणयोगो वा मा भून्मनुजधामसु ॥ २९ ॥ मृतियोगगधामस्थो द्रुतं याति यमालयम् । विष्टिगः सर्वनाशाय तस्मात् तौ परिवर्जयेत् ॥ ३० ॥ बाल्यवार्धकयोगौ च रिक्ता चापि विनिन्दिताः । तथापि ते गृहीताः स्युर्योग्यायोग्यनिदर्शिभिः ॥ ३१ ॥ नाहार्धदीर्घशेषस्तु विस्तार इति कथ्यते । अथवा तु परिधेस्ताभिर्हत्वा तदंशकैः ॥ ३२ ॥ व्यासदीर्घौ च विहितौ गुणव्यास इति स्मृतः । वस्वादिदर्शनान्ता याः संख्याः स्युः परिकीर्तिताः ॥ ३३ ॥ तत्तच्चतुष्टयं व्यासः कर्तव्यो गृहकर्मणि । वस्वादितचतुर्थेषु षट्सु पादोन उच्यते ॥ ३४ ॥ ते वर्ज्या नरशालासु ये पादोनाः प्रकीर्तिताः । पादोनं तन्तुनाशाय मृतये हीनदीर्घता ॥ ३५ ॥ दीर्घाधिक्यं विनाशाय धनानामिष्टदीर्घता । तस्मान्निर्दिष्टहस्तेभ्यो हीनधिक्यं न कारयेत् ॥ ३६ ॥ अङ्गुलीभिर्न दोषः स्यादुभयत्र कराहते । ताभिः कल्प्यास्तु तारादौ योनिभेदा हि पूर्ववत् ॥ ३७॥ सन्धिकर्माभिधानानि संक्षिप्य प्रवदाम्यहम् । हूस्वद्रव्यं तथा वामे दीर्घद्रव्यं तु दक्षिणे ॥ ३८ ॥ १. 'नदीर्घ न' क. पाठः २. 'ते'। स' क. ख. ग. पाठः, ४१