शेषस्तु व्यययोनी च भवतश्च यथाक्रमम् ।
विष्टिर्मरणयोगो वा मा भून्मनुजधामसु ॥ २९ ॥
मृतियोगगधामस्थो द्रुतं याति यमालयम् ।
विष्टिगः सर्वनाशाय तस्मात् तौ परिवर्जयेत् ॥ ३० ॥
बाल्यवार्धकयोगौ च रिक्ता चापि विनिन्दिताः ।
तथापि ते गृहीताः स्युर्योग्यायोग्यनिदर्शिभिः ॥ ३१ ॥
नाहार्धदीर्घशेषस्तु विस्तार इति कथ्यते ।
अथवार्घ तु परिधेस्ताभिर्हत्वा तदंशकैः ॥ ३२ ॥
व्यासदीर्घौ च विहितौ गुणव्यास इति स्मृतः ।
वस्वादिदर्शनान्ता याः संख्याः स्युः परिकीर्तिताः ॥ ३३ ॥
तत्तच्चतुष्टयं व्यासः कर्तव्यो गृहकर्मणि ।
वस्वादितश्चतुर्थेषु षट्सु पादोन उच्यते ॥ ३४ ॥
ते वर्ज्या नरशालासु ये पादोनाः प्रकीर्तिताः ।
पादोनं तन्तुनाशाय मृतये हीनदीर्घता ॥ ३५ ॥
दीर्घाधिक्यं विनाशाय धनानामिष्टदीर्घता ।
तस्मान्निर्दिष्टहस्तेभ्यो हीना[१]धिक्यं न कारयेत् ॥ ३६ ॥
अङ्गुलीभिर्न दोषः स्यादुभयत्र करदृते[२] ।
ताभिः कल्प्यास्तु तारादौ योनिभेदा हि पूर्ववत् ॥ ३७ ॥
सन्धिकर्माभिधानानि संक्षिप्य प्रवदाम्यहम् ।
ह्रस्वद्रव्यं तथा वामे दीर्घद्रव्यं तु दक्षिणे ॥ ३८ ॥