पृष्ठम्:वास्तुविद्या.pdf/४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वास्तुविद्यायाम् २ चतुर्गुणं च कुर्याद् वा मध्यमष्टाश्रमुच्यते । ऊर्ध्वाग्रं मूलदण्डैकं त्रिभागा हि शिखा स्मृता ॥ २० ॥ अथ वक्ष्यामि गेहादेर्नाहं तदीर्घविस्तरान् । ध्वजः सिंहो वृषो हस्ती महादिग्देवता ह्यमूः ॥ २१ ॥ विदिङ्नाथास्तु धूमः श्वा खरो ध्वाङ्क्ष इति स्मृताः । ध्वजादयस्तु शुभदा धूमाद्या अशुभाः स्मृताः ॥ २२ ॥ ध्वजः स्यादेकसंख्योक्ता तथा द्वे धूम उच्यते । तिस्रः सिंहश्वतस्रः श्वा पञ्चानड्डानुदाहृतः ॥ २३ ॥ षट् खरः सप्त मातङ्गोऽप्यष्टौ ध्वाङ्क्ष इतीरिताः । ता योनयो गृहादीनां पूर्वाशादिक्रमात स्मृताः ॥ २४ ॥ इष्टदीर्घे तु यद् द्विघ्नं तद् रामैकांशसंयुतम् । इष्टयोनेर्गुणैकांशयुतं पर्यन्तमुच्यते ॥ २५ ॥ तदष्टगुणितं कृत्वा रविभिस्तिथिभिस्तथा । त्रिघनैश्वाथ मुनिभिर्हते शेषाः क्रमात् स्मृताः ॥ २६ ॥ आयस्तु तिथयस्तारा वारास्तन्नाडिका अपि । तत्र ताराहृतफलं देशिकैः कथितं वयः ॥ २७ ॥ बाल्यादिमरणान्तं च फलेनैव विधीयते । ३. त्रिगुणीकृत्य पर्यन्तं शक्रैश्च वसुभिर्हते ॥ २८ ॥ १. 'श्र' ग., 'श्रमू' क. पाठः २. 'तत्रिभागा शि' क. ग. पाठः, २. 'ई' च. पाठः