चतुर्गुणं च कुर्याद् वा मध्यमष्टाश्रमुच्यते ।
ऊर्ध्वा[१]ग्र मूलदण्डैकं त्रि[२]भागा हि शिखा स्मृता ॥ २० ॥
अथ वक्ष्यामि गेहानाहं तद्दीर्धविस्तरान ।
ध्वजः सिंहो वृषो हस्ती महादिग्देवता ह्यमूः ॥ २१ ॥
विदिङ्नाथास्तु धूमः श्वा खरो ध्वाङ्क्ष इति स्मृताः ।
ध्वजादयस्तु शुभदा धूमाद्या अशुभाः स्मृताः ॥ २२ ॥
ध्वजः स्यादेकसंख्योक्ता तथा द्वे धूम उच्यते ।
तिस्रः सिंहश्चतस्रः श्वा पञ्चानानुदाहृतः ॥ २३ ॥
षट् खरः सप्त मातङ्गोऽप्यष्टौ ध्वाङ्क्ष इतीरिताः ।
ता योनयो गृहादीनां पूर्वाशादिक्रमात् स्मृताः ॥ २४ ॥
इष्टदीर्घ तु यद द्विघ्नं तद् रामैकांशसंयुतम् ।
इष्टयोर्गुणैकांशयुतं पर्यन्तमुच्यते ॥ २५ ॥
तदष्टगुणितं कृत्वा रविभिस्तिथिभिस्तथा ।
त्रिघनैश्वाथ मुनिभिर्हते शेषाः क्रमात् स्मृताः ॥ २६ ॥
आयस्तु तिथयस्तारा वारास्तन्नाडिका अपि ।
तत्र ताराहृतफलं देशिकैः कथितं वयः ॥ २७ ॥
बाल्यादिमरणान्तं च फलेनैव विधीयते ।
त्रिगुणीकृत्य पर्यन्तं शनैश्च वसुभिर्ह[३]ते ॥ २८ ॥