पृष्ठम्:वास्तुविद्या.pdf/४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमोऽध्यायः । धननाशाय बाहल्यं विदुस्तेषां च तद्विदुः । तेषां संकुचिते व्याधिस्तस्मात् ते परिवर्जयेत् ॥ १० ॥ अन्तरालस्य बाहल्यं गृहविस्तारतो भवेत् । तथाधिक्येऽन्तरालस्य तदन्तर्बहलं विदुः ॥ ११ ॥ यत् स्वसूत्रस्य बाहल्याद्धीनं सङ्कोच उच्यते । स्वव्यासदीर्घमध्येषु न कार्याः स्तम्भसन्धयः ॥ १२ ॥ कर्णसूत्रगतः सन्धिर्मरणायोपकल्पते । २ अथ वक्ष्यामि सम्भेदात् स्तम्भानां पङ्किनिर्णयम् ॥ १३ ॥ अयुग्माः पयस्तत्र युग्माः स्तम्भादयः स्मृताः । निर्दिष्टकरतो हीनाः पयः परिकीर्तिताः ॥ १४ ॥ तदाधिक्यं विनाशाय पादपङ्केनुसद्मनि । अथ पादस्य दैर्घ्येण तद्विष्कम्भं च कारयेत् ॥ १५ ॥ दर्शनाद्रिवसुद्वारपङ्किरुद्रांशकैः कृतम् । तत्समां विस्तृतिं कुर्यादुत्तराणां तथैव च ॥ १६ ॥ तदर्धे तस्य बाहल्यं नाम्ना रूपोत्तरस्य तु । शरांशकृतबाहल्ये तवयं तस्य वाजनम् ॥ १७ ॥ अंशैस्त्रिभिर्घनं कुर्यात् पट्टनिष्कममेव च । समं वा पादहीनं वाप्यर्धे सर्वेषु वास्तुषु ॥ १८ ॥ स्तम्भाग्रस्य च हीनत्वमष्टमांशादिकं भवेत् । मूलदण्डेन मूलाचं त्रिगुणं वाथ सार्धकम् ॥ १९ ॥ १. 'क्या' क. पाठ: १. 'ते। अयु' क. ख. ग. ड. पाठ: ३९