धननाशाय बाहल्यं विदुस्तेषां च तद्विदः ।
तेषां संकुचिते व्याधिस्तस्मात् ते परिवर्जयेत् ॥ १० ॥
अन्तरालस्य बाहल्यं गृहविस्तारतो भवेत् ।
तथाधिक्ये[१]ऽन्तरालस्य तदन्तर्बहलं विदुः ॥ ११ ॥
यत् स्वसूत्रस्य बाहल्याद्धीनं सङ्कोच उच्यते ।
स्वव्यासदीर्घमध्येषु न कार्याः स्तम्भसन्धयः ॥ १२ ॥
कर्णसूत्रगतः सन्धिर्मरणायोपकल्पते[२]
अथ वक्ष्यामि सम्भेदात् स्तम्भानां पङ्किनिर्णयम् ॥ १३ ॥
अयुग्माः पङ्कयस्तत्र युग्माः स्तम्भादयः स्मृताः ।
निर्दिष्टकरतो हीनाः पङ्कयः परिकीर्तिताः ॥ १४ ॥
तदाधिक्यं विनाशाय पादपङ्केर्नृसद्मनि ।
अथ पादस्य दैर्घ्येण तद्विष्कम्भं च कारयेत् ॥ १५ ॥
दर्शनाद्रिवसुद्वारपङ्क्तिरुद्रांशकैः कृतम् ।
तत्समां विस्तृतिं कुर्यादुत्तराणां तथैव च ॥ १६ ॥
तदर्धे तस्य बाहल्यं नाम्ना रूपोत्तरस्य तु ।
शरांशकृतबाहल्ये तद्वयं तस्य वाजनम् ॥ १७ ॥
अंशैस्त्रिभिर्धनं कुर्यात् पट्टनिष्कममेव ।
समं वा पादहीनं वाप्यर्धं सर्वेषु वास्तुषु ॥ १८ ॥
स्तम्भाग्रस्य च हीनत्वमष्टमांशादिकं भवेत् ।
मूलदण्डेन मूलाश्रं त्रिगुणं वाथ सार्धकम् ॥ १९ ॥