पृष्ठम्:वास्तुविद्या.pdf/४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वास्तुविद्यायाम् अथाष्टमोऽध्यायः । मानवानां गृहाः प्रोक्ता वसवस्ते ककुब्गताः । संस्थाभेदेन ते ज्ञेयाः पञ्चधा स्युः प्रमाणतः ॥ १ ॥ स्वयोनिव्यासगतयो दिग्विदिक्षु च संस्थिताः । भिन्नशाला च सा प्रोक्ता मनुजानां शुभप्रदा ॥ २ ॥ दिग्विदिक्ष्वेकयोनिस्था पर्यन्तेन तथैव च । ज्ञेया चतुरशालेति शिल्पशास्त्रनिदर्शिभिः ॥ ३ ॥ इष्टदिग्योनियुक्ता च पर्यन्तेनैकलक्षणा । समतुर्यश्रका ज्ञेयाप्येकशालाथवायता ॥ ४ ॥ शूद्रादिसूतिकादीनां प्रवेशे स्पृष्टिसम्भवात् । एकच्छायेन ते द्वे च वर्जयेद् भूसुरालये ॥ ५ ॥ ध्वजः कोणेषु पर्यन्ते दिक्षु दिङ्मानंकादयः । नाम्ना तुर्यश्रभिन्ना या नेष्टा विप्रालये च सा ॥ ६ ॥ दिक्षु स्वयोनिसंयुक्ताः स्वव्यासंगतयस्तथा । कोणेषु तद्योनियुताः पर्यन्तं ध्वजयोनिकम् ॥ ७ ॥ भिन्नतुर्यश्रका नाम्ना सा विप्रस्यापि सम्मती । भिन्नशाला हि सर्वेषां वर्णिनां शुभदायिनी ॥ ८ ॥ मन्दभावहितायाल्पं वक्ष्ये तस्याश्च लक्षणम् । अन्तरालाश्च वसवो दिग्विदिग्भेदकारकाः ॥ ९ ॥ ३८ १. 'नभेदका: ।' ख. ग. घ. ङ. पाठः. २. 'ता । क्षत्रियादित्रिव- र्णानामेताः सर्वाश्च सम्मताः । भिन्न' घ. पाठः-