सामग्री पर जाएँ

पृष्ठम्:वास्तुविद्या.pdf/४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३८
वास्तुविद्यायाम्

अथाष्टमोऽध्यायः ।
मानवानां गृहाः प्रोक्ता वसवस्ते ककुब्गताः ।
संस्थाभेदेन ते ज्ञेयाः पञ्चधा स्युः प्रमाणतः ॥ १ ॥
स्वयोनिव्यासगतयो दिग्विदिक्षु च संस्थिताः ।
भिन्नशाला च सा प्रोक्ता मनुजानां शुभप्रदा ॥ २ ॥
दिग्विदिक्ष्वेकयोनिस्था पर्यन्तेन तथैव च ।
ज्ञेया चतुरशालेति शिल्पशास्त्रनिदर्शिभिः ॥ ३ ॥
इष्टदिग्योनियुक्ता च पर्यन्तेनैकलक्षणा ।
समतुर्यश्रका ज्ञेयाप्येकशालाथवायता ॥ ४ ॥
शुद्रादिसूतिकादीनां प्रवेशे स्पृष्टिसम्भवात् ।
एकच्छायेन ते द्वे च वर्जयेद् भूसुरालये ॥ ५ ॥
ध्वजः कोणेषु पर्यन्ते दिक्षु दिङ्मान[]कादयः ।
नाम्ना तुर्यश्रभिन्ना या नेष्टा विप्रालये च सा ॥ ६॥
दिक्षु स्वयोनिसंयुक्ताः स्वव्यासगतयस्तथा ।
कोणेषु तद्योनियुताः पर्यन्तं ध्वजयोनिकम् ॥ ७ ॥
भिन्नतुर्यश्रका नाम्ना सा विप्रस्यापि सम्मता[]
भिन्नशाला हि सर्वेषां वर्णिनां शुभदायिनी ॥ ८ ॥
मन्दभावहितायाल्पं वक्ष्ये तस्याश्च लक्षणम् ।
अन्तरालाश्व वसवो दिग्विदिग्भेदकारकाः ॥ ९ ॥


  1. 'नभेदकाः ।' ख. ग. घ. ङ. पाठः.
  2. 'ता । क्षत्रियादित्रिव- र्णानामेताः सर्वाश्व सम्मताः । भिन्न' घ. पाठः-