स[१]प्ताङ्गुलं पञ्चकरं तारं ज्येष्ठं गजालयम् ।
समिदङ्गुलिसंयुक्तं दशहस्तं तथायतम् ॥ २३ ॥
तिथ्यङ्गुलं त्रिहस्तं च तारं मध्यमुदा[२]हृतम् ।
समिदङ्गुलिसंयुक्तं पञ्चहस्तायतं गृहम् ॥ २४ ॥
कनिष्ठमुत्तरं तारमङ्गुलोनद्विहस्तकम् ।
माहेन्द्रपदगं द्वारं ब्राह्मणानां विधीयते ॥ २५ ॥
त्र्यङ्गुलं तिथिहस्तं तदायामं पूर्ववेश्मनः ।
ए[३]काङ्गुलं प[४]ञ्चकरं तारं श्रेष्ठस्य कीर्तितम् ॥ २६ ॥
त्र्यङ्गुलं न[५]वहस्तं स्या[६]दायामं मध्यमस्य तु ।
त्रिकरं चाङ्गुलं तारं कथितं ध्वजम[७]न्दिरम् ॥ २७ ॥
षड्डस्तं त्र्यङ्गुलायामं कनिष्ठं ध्वजमन्दिरम् ।
एकाङ्गुलं डिहस्तं च तारं तस्य विदुर्बुधाः[८] ॥ २८ ॥
प्राधान्येन कृते गेहे वलारातिदिशा भवेत् ।
द्वारं गृहक्षते चाथ विहितं क्षत्रियस्य तु ॥ २९ ॥
इति वास्तुविद्यायां कालनियमः
सप्तमोऽध्यायः ।