पृष्ठम्:वास्तुविद्या.pdf/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमोऽध्यायः । सेप्ताङ्गुलं पञ्चकरं तारं ज्येष्ठं गजालयम् । समिदङ्गुलिसंयुक्तं दशहस्तं तथायतम् ॥ २३ ॥ तिथ्यङ्गुलं त्रिहस्तं च तारं मध्यमुदाहृतम् । समिदङ्गुलिसंयुक्तं पञ्चहस्तायतं गृहम् ॥ २४ ॥ कनिष्ठमुत्तरं तारमङ्गुलोनधिहस्तकम् । माहेन्द्रपदगं द्वारं ब्राह्मणानां विधीयते ॥ २५ ॥ त्र्यङ्गुलं तिथिहस्तं तदायामं पूर्ववेश्मनः । ऐकाङ्गुलं पैञ्चकरं तारं श्रेष्ठस्य कीर्तितम् ॥ २६ ॥ त्र्यङ्गुलं नैवहस्तं स्यौदायामं मध्यमस्य तु । त्रिकरं चाङ्गुलं तारं कथितं ध्वजमँन्दिरम् ॥ २७ ॥ षड्डस्तं त्र्यङ्गुलायामं कनिष्ठं ध्वजमन्दिरम् । एकाङ्गुलं द्विहस्तं च तारं तस्य विदुर्बुधाः ॥ २८ ॥ प्राधान्येन कृते गेहे वलारातिदिशा भवेत् । द्वारं गृहक्षते चाथ विहितं क्षत्रियस्य तु ॥ २९ ॥ इति वास्तुविद्यायां कालनियमः सप्तमोऽध्यायः । 2 १. 'तिथ्यगु' घ. ङ. पाठः. २.. 'दग्गृहम् ।' ख. ङ. पाठः- ३. 'चन्द्रागु' घ. पाठ: ४. 'बाणक' घ. पाठ: ५. 'रत्नह' घ. पाठ:. ६. 'तदा' घ. पाठः. ७. 'वेश्मनः ॥' ङ. पाठः, ८. 'धाः । द्वा' क. ख. ग. ङ. पाठ..