पृष्ठम्:वास्तुविद्या.pdf/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वास्तुविद्यायां वाताख्ये वातभयं यमदैवतसंज्ञके भवेन्मृत्युः । एतच्चान्यत् सकलं ज्ञात्वा स्थाप्यानि तानि सद्मानि ॥ १३ ॥ एका चेद् दक्षिणा शाला द्वे चेद् दक्षिणपश्चिमे । त्रिशाला चोत्तरैयुता चतुरशाला ध्वजान्विता ॥ १४ ॥ अष्टादशकरायामं नवाङ्गुलसमन्वितम् । त्र्यङ्गुलान्वितषड्ढस्ततारमुत्तममन्दिरम् ॥ १५ ॥ त्रयोदशकरं दीर्घे नवाङ्गुलियुतं भवेत् । रुद्राङ्गुलियुतं हस्तचतुष्कं तस्य विस्तृतम् ॥ १६ ॥ मन्दिरं सिंहयोनि स्यान्मध्यमं परिकीर्तितम् । कनिष्ठस्यायतं कुर्यान्नवहस्तं नवाङ्गुलम् ॥ १७ ॥ त्रिहस्तव्यङ्गुलं तारं दक्षिणाशागतं गृहम् । पुष्पदन्तपदद्वारं वैश्यानामृद्धिदं तथा ॥ १८ ॥ हरतानां पञ्चदशकं तावदङ्गुलमायतम् । पञ्चाङ्गुलं पञ्चकरं पश्चिमे श्रेष्ठमालयम् ॥ १९ ॥ तिथ्यङ्गुलं दशकरमायामं मध्यमस्य तु । विश्वाङ्गुलं त्रिहस्तं च विस्तारं वृषयोनिकम् ॥ २० ॥ तिथ्यङ्गुलं षट्करं च कनिष्ठायाममीरितम् । विश्वाङ्गुलं त्रिहस्तं च विस्तारं पञ्चयोनिकम् ॥ २१ ॥ फल्लाटपदगं द्वारं शूद्राणां संप्रकीर्तितम् । समिङ्गुलिसंयुक्तं तिथिहस्तायतं गृहम् ॥ २२ ॥ ३६ १. 'त्युः । एका' क. ख. ग. पाठः. २. 'रायुक्ता च' क. ग. पाठ:- २. ‘पञ्चागु’ ख. घ. ङ, पाठः. ४. 'वि' ख. घ. ङ. पाठः