पृष्ठम्:वास्तुविद्या.pdf/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमोsध्यायः । ३ मार्तण्डारूढराशौ विनिहितचरणस्तै पदे न्यस्तमूर्धा वामे पार्श्वे शयानो भ्रमति स परितः पूरुषो वास्तुरूपः । पादे यद्यर्थनाशः शिरसि च मरणं तस्य पृष्ठे विपत्ति- र्वक्षस्यूरौ च नाशेः शुभफलमुदरे स्तम्भमाद्यं निदध्यात् ॥ ६॥ उत्तरशालारहितं हिरण्यनाभं त्रिशालकं वसुदम् । प्राकूछालारहितं स्यात् सुक्षेत्राख्यं समृद्धिदं वेश्म ॥ ७ ॥ याम्यविहीनं शूलं त्रिशालकं वित्तनाशनं कुरुते । पक्षनमपरवर्जितमेतत् पुत्रघ्नं वैरिदं भवति ॥ ८ ॥ पूर्वापरयोहींना शाला या तां वदन्ति गृहचुल्लीम् । दक्षिणसौम्यविहीनं गृहं सिद्धार्थकमाह वागधिपः ॥ ९ ॥ पश्चिमयम्या शाला यमपे पश्चिमोत्तरा शाला । दण्डाख्या सा कथिता पुरातनैः शिल्पशास्त्रज्ञैः ॥ १० ॥ F उत्तरपूर्वा शाला वाताख्या पूर्वदक्षिणा शाला । यमदैवतमिति कथितं प्राचीनैः शिल्पशास्त्रनिष्णातैः ॥ ११ ॥ सिद्धार्थेऽर्थावाप्तिर्यमशूर्पे गृहपतेर्मृत्युः । दण्डाख्ये दण्डवधं गृहचुँह्रयां कलहमुद्वेगम् ॥ १२ ॥ १. 'न्म' क. ग. घ. ङ. पाठ: २. 'भौ शु' क. ग. पाठः ३. 'वास्तु ॥' क. ख. ग. पाठ:. ४. 'ना या सा शाला व' क. ग. व. पाठः ५. 'पुष्टिम् ।' ख., 'पु' क. पाठः ६. 'यमगा शा' क. ग. पाठ:. ७. 'पु' क. पाठ:.

  • मार्तण्डारूढराशेः सप्तमे इत्यर्थः ।