पृष्ठम्:वास्तुविद्या.pdf/४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वास्तुविद्यायां कर्तुर्वेशस्य नाशश्च मर्गवेधे ध्रुवं भवेत् । शास्त्रान्तरनिषिद्धांश्च दोषान् सर्वान् विवर्जयेत् ॥ ३२ ॥ इति वास्तुविद्यायां वास्तुमर्मसंस्थानं नाम षष्ठोऽध्यायः । अथ सप्तमोsध्याय: । तुलावृश्चिकयोः सिंहं पश्चिमं मृगकुम्भयोः । गजं तु मेषवृषयोः कुर्यात् सिंहे ध्वजालयम् ॥ १ ॥ कन्यायां पन्नगः शेते प्राकूछिरा याम्यपुच्छकः । चापे याम्यशिराः प्रत्यक्पुच्छो मीने पराक्छिराः ॥ २ ॥ उदक्पुच्छोऽथ मिथुने सौम्यकेशस्तथैव च । प्राचीपुच्छो लुठत्येवं मासैदशभिः क्रमात् ॥ ३ ॥ स्तम्भा न हि विधातव्यास्तदङ्गेषु नृमन्दिरे । यदि कुर्वन्ति तत्रस्था निरयं यान्ति ते ध्रुवम् ॥ ४ ॥ दिग्गृहा नैव कर्तव्याः सूर्ये चोभयराशिगे । कृते तु निरयं याति सभृत्यः ससुतोऽधनी ॥ ५ ॥ २. 'कर्मकथनं' ख. घ. ङ. पाठः, ४. 'सौम्यकेशो लु' क. ग. पाठः १. 'नन्यांश्च व' क. ग. पाठ:. ३, ‘प्राक्पुच्छश्च तथै’ क. ग. पाठः, ५. 'नृगृहा' ख. पाठः ६. 'लयी ॥' ख. ग. घ. ङ. पाठ..