पृष्ठम्:वास्तुविद्या.pdf/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षष्ठोऽध्यायः । । सिंहमातङ्गमहिषकूर्मसूकरमस्तकम् शुद्धहाटकक्लृप्तं स्यात् कर्तुर्गेहस्य वृद्धिदम् ॥ २४ ॥ वक्ष्ये चतुष्षष्टपदेन वास्तु कोणेषु सूत्रे विलिखेत् सिराख्थे । पूर्वाग्रसौम्याग्रगताच वंशा मध्ये त्रयः कोणगता लिखेच ॥ २५ ॥ महेन्द्रधर्मेशपदप्रविष्टं गृहक्षताप्याख्यपदप्रविष्टम् । पुष्पादिदन्तेन्दुपदस्थितं च फल्लाटमित्रस्थमिमेऽनुवंशाः ॥ २६ ॥ तिस्रो रेखाश्चतुर्दिक्षु बाह्यस्थाः सन्धयः स्मृताः । मर्माणि सूत्रसन्धीनि चोपमर्म पदस्थितम् ॥ २७ ॥ मूर्ध्नि वक्रे च नाभौ च महामर्म स्तने हंदि । अनुवंशद्वयस्यापि सन्धिर्लाङ्गलमुच्यते ॥ २८ ॥ गवां नाशः शिरोवेधे वंशवेधे मृतिर्भवेत् । प्रवासः सन्धिवेधे स्यादनुवंशे भयं भवेत् ॥ २९ ॥ त्रिशूले गर्भनाशः स्याहाङ्गले च शिरोरुजा । चतुष्के वाहनोच्छित्तिः षट्के तु बहुवैरिता ॥ ३० ॥ स्वामिनो मरणं विद्धे महामर्मणि जायते । उपमर्मणि विद्धे तु भ्रातृपुत्रक्षयो भवेत् ॥ ३१ ॥ घ. ङ. पाठ, ३३ १. 'कृत्वा च' क. ग. पाठः २. 'मृतिः ।' क. ग. पाठ:. ३. 'मा'