सामग्री पर जाएँ

पृष्ठम्:वास्तुविद्या.pdf/४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३३
षष्ठोऽध्यायः ।'

सिंहमातङ्गमहिषकूर्मसूकरमस्तकम् ।
शुद्धहाटकक्लृप्तं स्यात् कर्तुर्गेहस्य वृद्धिदम् ॥ २४ ॥
[]क्ष्ये चतुष्षष्टिपदेन वास्तु
कोणेषु सूत्रे विलिखेत् सिराख्ये ।
पूर्वाग्रसौम्याग्रगताश्च वंशा
मध्ये त्रयः कोणगता लिखेच्च ॥ २५ ॥
महेन्द्रधर्मेशपदप्रविष्टं
गृहक्षताप्याख्यपदप्रविष्टम् ।
पुष्पादिदन्तेन्दुपदस्थितं च
फल्लाटमित्रस्थमिमेऽनुवंशाः ॥ २६ ॥
तिस्रो रेखाश्चतुर्दिक्षु बाह्यस्थाः सन्धयः स्मृताः ।
मर्माणि सूत्रसन्धीनि चोपमर्म पदस्थितम् ॥ २७ ॥
मूर्ध्नि वक्रे च नाभौ च महामर्म स्तने हृ[]दि ।
अनुवंशद्वयस्यापि सन्धिर्लाङ्गलमुच्यते ॥ २८ ॥
गवां नाशः शिरोवेधे वंशवेधे मृतिर्भवेत् ।
प्रवासः सन्धिवेधे स्यादनुवंशे भयं भवेत् ॥ २९ ॥
त्रिशूले गर्भनाशः स्याल्लाङ्गले च शिरोरुजा ।
चतुष्के वाहनोच्छित्तिः षट्के तु बहुवैरिता ॥ ३० ॥
स्वामिनो मरणं विद्धे महामर्मणि जायते ।
उपमर्मणि विद्धे तु भ्रा[]तृपुत्रक्षयो भवेत् ॥ ३१ ॥


  1. 'कृत्वा च' क. ग. पाठः
  2. 'मृतिः ।' कु. ग. पाठः
  3. 'मा'
    घ. ङ. पाठ