सामग्री पर जाएँ

पृष्ठम्:वास्तुविद्या.pdf/४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३२
वास्तुविद्यायां

पञ्चकं मर्मसन्धिश्च द्वे द्वे दिक्षु चतुर्ष्वपि ।
पदमध्यस्थितं मर्म रज्जुभ्यां दोषवर्जितम् ॥ १७ ॥
स्थानान्येतानि वास्तोर्गृहकरणविधौ
पीडयेन्नैव विद्वान्
पीडा स्यात् पीडितेषु क्षितिपतिविषय-
ब्राह्मणानां पशूनाम् ।
तत्कर्तुः शिल्पिनां च स्वतनयवनिता-
भ्रातृसम्बन्धिनां च
यत् तस्मात् स्थानवेधे पृथगपि निहितान्
वच्मि दोषान् विभज्य ॥ १८ ॥
मूर्ध्नि वक्रे च कण्ठे च हृदये मरणं भवेत् ।
विद्धे चोरसि हृद्रोगः पादयोः कलहो भवेत् ॥ १९ ॥
ललाटे भ्रातृहानिः स्याद् वित्तघ्नोऽङ्गुलिपृष्ठयोः ।
ऊर्वोर्मृत्युश्च बन्धूनां पत्नीनाशस्तु वा भवेत् ॥ २० ॥
गुह्यस्थे सुतनाशः स्यादष्टके गर्भविच्युतिः ।
षट्के च वृद्धिः शत्रूणां चतुष्के स्वजनक्षयः ॥ २१ ॥
पञ्चके व्याधिरुद्दिष्टस्तस्करेभ्यस्त्रिके भयम् ।
वर्जयेत् कुड्यमध्ये च नाडीरज्ज्वादिसंगमम् ॥ २२ ॥
उक्तानुक्तं च यत्किञ्चित् प्रमादाद् यदि सम्भवेत् ।
एतानि दोषशान्त्यर्थं निखनेद् वास्तुकर्मणि ॥ २३ ॥
+ ' चतसृषु' इति स्यात् ।