पृष्ठम्:वास्तुविद्या.pdf/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षष्ठोऽध्यायः । सन्ति संक्षेपतस्तानि द्विधा वक्ष्यामि सांप्रतम् । तान्यपि स्तम्भकुड्यादौ वर्जनीयानि यत्नतः ॥ ९ ॥ नाड्यः स्युर्दशपूर्वसौम्यगमिता वास्तुस्थिताः कल्पिते- ब्वेकाशीति पदेषु कर्णनिहिते ताभिश्च सूत्रे लिखेत् । अत्राङ्गाग्निपदस्थिताश्च परितस्तत्पार्श्वतो' रज्जवो मर्मादीनि विभज्य वच्मि बहुधा तन्नाडिकारज्जुभिः ॥ १० ॥ धर्मा यशोवती भद्रा शुभदा कामदा शुभा । चित्रा सौम्या सुधा गौरी नाड्यः प्रागानना दश ॥११॥ अमृता वारुणी शान्ता ह्लादिनी ब्रह्मवादिनी । मनोरमा रतिः कान्ता ज्वालिनी चोत्तराननाः ॥ १२ ॥ अष्टाभिः सङ्गतिर्यत्र नाडीरज्जुविमिश्रितैः । सूत्रैस्तत्र महामर्म ब्रह्मस्थानस्य कोणतः ॥ १३ ॥ प्रत्येक दिक्षु षट्कानि त्रिकोणं सन्ति पार्श्वतः । नाडीद्वयसमायोगादुपमर्माणि तानि तु ॥ १४ ॥ चतुर्विंशञ्चतुष्काणि नाडीमर्माणि सन्ति च । रज्जुमर्माणि रज्जुभ्यां चतुष्कं नवकं भवेत् ॥ १५ ॥ कोणस्थमुपमर्मान्तं त्रिकं बाह्ये विनिर्दिशेत् । षटुं च मर्मसम्भेदं कृतिः षण्णां भवन्ति च ॥ १६ ॥ १. 'यो' क. गं. पाठः. २. 'रुणा वा' क. ङ, पाठ:.