सामग्री पर जाएँ

पृष्ठम्:वास्तुविद्या.pdf/३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अथ षष्ठोऽध्यायः ।

अथातः संप्रवक्ष्येऽहमङ्गणस्य तु लक्षणम् ।
अङ्गणं ध्वजयोनिः स्यान्मुखायामाभि[]संयुतम् ॥ १ ॥
पादुकानां बहिर्भागमङ्गनं तद् विदुर्बुधाः ।
ध्वजः सर्वत्र संप[]न्न इति शास्त्रनिदर्शनम् ॥ २ ॥
तत्त्वार्केन्दुवसुद्वारवेश्मकृत्यश्विसागराः ।
यथायोग्यं च कर्तव्यमजिरस्यायतं तथा ॥ ३ ॥
वेधं तु गृहमध्यानां गोत्रनाशकरं त्यजेत् ।
प्रादक्षिण्यात् स्वया गत्या महादिग्गतवेश्मसु ॥ ४ ॥
परिहर्तव्य एवायं बुद्धिकौशलशालिभिः ।
कर्णसूत्रयुतिर्मध्ये न भवेत् कर्णवेश्मनाम् ॥ ५ ॥
अशुभाय भवत्येषा परिहार्या स्वदीर्घतः ।
रुद्ररन्धाद्विवाणाश्च गत्यङ्गुल्यः क्रमात् स्मृताः ॥ ६ ॥
पदस्य गृहकृत्यंशः सूत्रं स्याद् वेदषष्टिके ।
एकाशीतिपदेऽशो वस्वंश: शतके पदे ॥ ७ ॥
सूत्रवेधं तु सर्वेषां स्तम्भमध्यादिषु त्यजेत् ।
मर्मादीनि निषिद्धानि वास्तुकर्मण्यनेकधा ॥ ८ ॥

  1. 'दि' क. ख. ग. पाठः
  2. ' पूज्य इ' क. ख. ग. पाठः,
    'पूर्वादितः' इति शेषः ।