पृष्ठम्:वास्तुविद्या.pdf/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमोऽध्यायः । ये सन्ति त्वचिसारास्तेऽपि च सन्त्वेव सर्वतो बाह्ये । सकलः सारो येषां ते वृक्षाः सर्वदिक्षु युज्यन्ताम् ॥ १८ ॥ वृक्षा निस्सारो ये तेषां क्षेत्रेषु वर्तनं नेष्टम् । जातीनागलताद्या लतिका रम्भाश्च सर्वतः शस्ताः ॥ १९ ॥ हाटकतरुरपि नेष्टो मन्दिरसविधेष्वितीरितं यस्मात् । तस्मात् सर्वे वृक्षाः सर्वदिगन्तेऽविनिन्दितास्ते स्युः ॥ २० ॥ द्वारं यत्र च विहितं तद्दिगधीशाधिपं भवेद् धाम । एकतलं वा द्वितलं द्वितले द्विमुखं च निर्मुखं वा स्यात् ॥ २१ ॥ द्वारस्तम्भन्यासो जन्मनि तस्योदितं च शिल्पिवरैः । आजन्मान्तं निम्नं मार्ग तद्वारतारसदृशमपि ॥ २२ ॥ अब्धिगुणीकृततारे योनिः स्वीया भवेद्यथा तस्य । एतन्मण्डपचतुरं किष्कुमितं वा भवेच्च मात्रमितम् ॥ २३ ॥ स्वदिगधिनाथे द्वारे मार्गेऽपि तथैव वा ततिं कुर्यात् । अजिरद्वारेऽप्येवं मार्ग कर्तव्यमाहुराचार्याः ॥ २४ ॥ इति वास्तुविद्यायां वेदिसंस्थान नाम पञ्चमोऽध्यायः । २९ १. 'राश्चेत् ते' ख. ग. घ. ङ. पाठः. २. 'ष्टम् । हा' क. ख. ग. ङ. ३. 'पि॥ अजिरद्वारेऽप्येवं मार्ग कर्तव्यमाहुराचार्याः । अब्वि' ग. घ., पाठः, ‘पि । अपर अब्धि' क. पाठः ४. ‘तम् । इति' क. ख. ग. पाठः.