पृष्ठम्:वास्तुविद्या.pdf/३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वास्तुविद्यायां सावित्रः सविता हुताशनदिशि ब्रह्माग्निमध्येऽर्धगा- विन्द्रश्चेन्द्रजयश्च राक्षसदिशि ख्यातौ पदार्धस्थितौ । रुद्रो रुद्रजयश्च वायुदिशि च व्याप्तौ तथेशार्धगा- वापश्चापि तथापवत्स इति च द्वन्द्वस्थिता देवताः ॥४१॥ पूर्वादिदिक्षु क्रमशो द्विपाद्या स्यादार्यकश्चापि तथा विवस्वान् । मित्रश्च पश्चात् तु महीधरश्च ब्रह्मा च मध्यस्थचतुष्पदस्थः ॥ ४२ ॥ दिक्षु कोणेषु बाह्यस्थाः प्रवदामि पुनः कमात् । शर्वः स्कन्दोऽर्यमाहेश्च जम्भकः पिलिपिञ्छकः ॥ ४३ ॥ २ चरकी च विदारी च पूतना पापराक्षसी । संस्थाप्यैवं चतुःषष्टिपदेष्वेताः प्रपूजयेत् ॥ ४४ ॥ एवं चाष्टकृतिप्रभिन्नपदगा ब्रह्मा चतुष्कोष्ठैगो मध्ये तस्य चतुष्पदप्रणिहिता दिक्स्थाश्चतस्रो बहिः । द्वे द्वे कोणगते तथैकपदगे द्वे द्वे पदार्धस्थिते द्वे द्वे दिक्षु बहिः पदद्वयगते शिष्टाः पदैकस्थिताः * ॥४५॥ १. 'चैव ज’ क. पाठ:. २. 'सी । आसीत्' क. ग. पाठः. ३. 'तः' घ. पाठः. ४ 'ण' घ. ङ. पाठ:. इत उपरि च. पुस्तकेsधिकः पाठः- “एकाशीतिपदेऽथवा विनिहिताः संपूजयेद् देवता मध्ये तत्र पितामहो नवपदान्याश्रित्य संतिष्ठते ।