सामग्री पर जाएँ

पृष्ठम्:वास्तुविद्या.pdf/३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३
चतुर्थोऽध्यायः ।

वास्तु देहस्थितास्तत्र त्रिपञ्चाशत्तु देवताः ।
पूजयेत् क्रमशस्तासां विभागः प्रोच्यतेऽधुना ॥ ३५ ॥
ब्रह्मा मध्यचतुष्पदप्रणिहितो दिक्षु द्विपाद्या स्थिता-
स्तद्वाह्येऽथ चतस्र एकपदके द्वे द्वे स्थिते पार्श्वयोः ।
कोणस्याप्यथ षोडशार्धपदगाः कोणेषु बाह्ये तथा
दिक्स्थाः षोडश देवता द्विपदगाश्राष्टौ वहिर्दिग्गताः ॥ ३६ ॥
ईशान पर्जन्यजयन्तशक्रध्वान्तापनुत्सत्य भृशान्तरिक्षाः ।
अग्निश्च पूषा वितयाभिधानो गृहक्षतः प्रेतनिवासभर्ता ॥ ३७ ॥
गन्धर्वसंज्ञस्त्वथ भृङ्गराजो
मृगाभि[]धानः पितरः प्रशस्ताः ।
दौवारिकः पश्चिमपूर्वसंस्थः
सुग्रीवसंज्ञस्त्वथ पुष्पदन्तः ॥ ३८ ॥
भूयः प्रशस्तो[] वरुणोऽसुरे[]श्च
शोषश्व रोगः पवनो भुजङ्गः ।
मुख्योऽथ भल्लाटनिशाकरौ च
भूयोऽर्गलादित्युदितिक्रमेण ॥ ३९ ॥
विष्कम्भबाह्यस्थपदप्रविष्टा
द्वात्रिंशदेताः परितः प्रदिष्टाः ।
अन्तःस्थकोणा[]र्धपदेषु चाष्टौ
वक्ष्ये चतस्रश्च दिशासु योज्याः ॥ ४० ॥

  1. 'धिराजः पि' क. ख. ग. पाठः
  2. 'स्तौ' क. घ. ङ. पाठः
  3. 'णस्थप' ङ. पाठः,
  4. 'णस्थप' ङ. पाठः,