पृष्ठम्:वास्तुविद्या.pdf/३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थोऽध्यायः । वास्तुदेहस्थितास्तत्र त्रिपञ्चाशत्तु देवताः । पूजयेत् क्रमशस्तासां विभागः प्रोच्यतेऽधुना ॥ ३१ ॥ ब्रह्मा मध्यचतुष्पदप्रणिहितो दिक्षु द्विपाद्या स्थिता- स्तद्वाह्येऽथ चतस्र एकपदके द्वे द्वे स्थिते पार्श्वयोः । कोणस्याप्यथ षोडशार्धपदगाः कोणेषु बाह्ये तथा दिक्स्थाः षोडश देवता द्विपद्गाश्राष्टौ बहिर्दिग्गताः ॥ ३६ ॥ ईशानपर्जन्यजयन्तशऋध्वान्ता पनुत्सत्यभृशान्तरिक्षाः । अग्निश्च पूषा वितयांभिधानो गृहक्षतः प्रेतनिवासभर्ता ॥ ३७॥ गन्धर्व संज्ञस्त्वथ भृङ्गराजो मृगाभिधानः पितरः प्रशस्ताः । दौवारिकः पश्चिमपूर्वसंस्थः सुग्रीवसंज्ञस्त्वथ पुष्पदन्तः ॥ ३८ ॥ भूयः प्रशस्तो वरुणोऽसुरैश्च शोषश्च रोगः पवनो भुजङ्गः । मुख्योऽथ भल्लाटनिशाकरौ च भूयोऽर्गलादित्युदितिक्रमेण ॥ ३९ ॥ विष्कम्भबाह्यस्थपदप्रविष्टा द्वात्रिंशदेताः परितः प्रदिष्टाः । अन्तःस्थकोणार्धपदेषु चाष्टौ वक्ष्ये चतस्रश्च दिशासु योज्याः ॥ ४० ॥ २३ १. 'धिराजः पि' क. ख. ग. पाठ:. २. 'स्तौ ' क. घ. ङ, पाठ:. ३. 'रौ च' क. घ. ङ. पाठ: ४. 'णस्थप' ङ. पाठः,