सामग्री पर जाएँ

पृष्ठम्:वास्तुविद्या.pdf/३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२
वास्तुविद्यायां

फल्लाटे च महेन्द्रे च द्वारे शुद्रस्य पूजिते[]
सुग्रीवः पुष्पदन्तश्च मित्रोऽथ वरुणस्तथा ॥ २७ ॥
यस्तत्र शयनीयं स्यात् सर्वेषामिति च स्थितिः ।
दौवारिके[]प्रमाणं स्याद् भूमिर्वौ पैतृकी स्मृता ॥ २८ ॥
महानसं च पूष्णि स्याद् गोष्ठागारं तथासुरे।
स्थानभूमिं तु गन्धर्वे सदा कुर्याद् विशेषतः ॥ २९ ॥
यदुक्तं वेदिविस्तारमायामं चापि तत्समम् ।
एवं कृत्वा चतुरश्रं तन्मध्ये सूत्रमालिखेत् ॥ ३० ॥
प्रागग्रं चाप्युदग्वकं ब्राह्मं याम्यं च नामतः ।
सूत्रद्वयेन सा वेदिश्चतुःखण्डी च संभवेत् ॥ ३१ ॥
मानुष्यमथ याम्यं च दैवमासुरमेव च ।
ऐशान्यादिपदानां च नामान्येवं विदुर्बुधाः ॥ ३२ ॥
स्थानं नृणां तु मानुष्ये दैवे चापीति केचन ।
निन्द्यावासुरयाम्यौ तु पदे गृहविधौ नृणाम् ॥ ३३ ॥
सङ्कल्प्य तस्यां भुवि वेदिकायां
स्फीतां विदध्यादथ वास्तुपू[]जाम् ।
कृत्वा चतुःषष्टिपदानि भूयः
कोणेषु सूत्रे विनिवेशये (द्) द्वे ॥ ३४ ॥


  1. 'ते । माहेन्द्रमथवा द्वारं ब्राह्मणस्य विशेषतः । सु' ख. पाठः
  2. 'केन्द्रमानं' छ. पाठः...
  3. 'यागम् ' ख.ङ. छ. पाठ:.