गृहक्षते च माहेन्द्रे ब्राह्मणानां प्रकीर्तितम् ।
महीधरे च सोमे च फल्लाटार्गलयोस्तथा ॥ २१ ॥
शयनीयं तु कर्तव्यं प्रशस्तं पूर्वतः शिखा ।
नवद्वाराकृतं कुर्यादन्तरिक्षे महानमम् ॥ २२ ॥
वितथे चार[१]भूमिं च गोष्ठागारं तथासुरे ।
स्ना[२]नभूमिं च गान्धर्वे सदा कुर्याद् विशेषतः ॥ २३ ॥
फल्लाटे पुष्पदन्ते च द्वारे वैश्यस्य पूजिते ।
यमे विवस्वति प्रोक्तं गन्धर्वे च गृहक्षते ॥ २४ ॥
शयनीयं प्रक[३]र्तव्यं विद्वद्भिः प्राक् शिरो भवेत् ।
पूर्वे च वारुणे पन्थाः पूर्वोक्तं वा महानसम् ॥ २५ ॥
गन्धर्वे स्थानभूमिः स्याद् गोष्ठागारं तथासुरे ।
पैतृके गर्भभूमिः स्याद् वास्तुविद्भिरितीरितम् ॥ २६ ॥
पश्चिमे धनधान्यादि शयनं च विनोदकम् ||
अथवा तत्र धान्यानि नीयन्ते प्राह शङ्करः ।
उत्तरे गृहसंस्थाने विनोदनमुदाहृतम् ॥
मुसलोलूखलौ तत्र प्राह वाचस्पतिस्तथा ।
अथवा प्राङ्कणं मध्ये ब्रह्मणा समुदीरितम् ॥
इति सर्वदेवानां मते ।
अम्भः कुम्भगतं श्रेष्ठं मध्यमं मीनमेषयोः ।
मकरे च वृषे नीचं ग्रामादेरालयस्य वा ॥
इतीशानगुरुपद्धतौ ।”