सामग्री पर जाएँ

पृष्ठम्:वास्तुविद्या.pdf/२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०
वास्तुविद्यायां

कूपं कुम्भगतं श्रेष्ठं मध्यमं मीनमेषयोः ।
अधनं मकरस्थं हि कूपान्येवं विदुर्बुधाः ॥
बहिः सञ्चारमाश्रित्य कूपद्वयमथाधमम् ।
+ + + + + + + + तत् कूपद्वयमुच्यते ॥
कूपद्व्यमथान्यच्च प्राकाराद् बहिरुच्यते ।
मेषस्थमिति यं प्राहुर्माने वारि गुरु स्मितम् ॥
कुम्भे मीनगते कूपे लघु वारि च शोभने ।
मनो दुःखहरे चैव पुत्रपौत्र विवर्धने ||
 बाह्यस्थे च तथा कूपे गुणदोषविवर्जिते ।
विषभागे विषं विद्यादमृतेऽमृतमुच्यते ॥
वंशे वंशयं विद्यात् स्तम्भस्थे वर्णसङ्करम् ।
क(र्म?र्ण) सूत्रे मृतिं क(र्म?र्ण) बहिःसूत्रेषु विस्मृतिः ॥
चोरशत्रुगृहोत्पाता गृहसूत्रे विदुर्बुधाः ।
प्राकारस्य बहिःसूत्रे तद्वाह्ये शूद्रगोचरे ॥
पुनः कोणचतुष्केषु चत्वार्यथ गृहाण्यपि ।
चतुरश्राणि तान्याहुर्विनियोगं ब्रवीमि ते ॥
भक्ष्यभोजनपानानि कारयेन्मीनगोचरे ।
गवां स्थितिस्तथा युग्मे महिषाणां तु दानवे ||
धान्यानि तत्र नीयन्ते प्रसादं वापि कारयेत् ।
वायव्ये तण्डुलस्यापि मुसलोलूखलस्थितिः ॥
यदि सङ्कोचयेत् कर्ता प्रयोजनगतेच्छया ।
एकैकगृहसंस्थानं चतुरश्रद्वयं विदुः ॥
चतुरश्रकस्य मध्ये मण्डपमुच्यते ।
 यदि सोचयेद् भर्ता प्रयोजनगतेच्छया ॥
भक्ष्यभोजनपानानि गृहे पूर्वे तदा भवेत् ।
दक्षिणे धनधान्यादि शयनं च विधीयते ॥
अथवा तत्र कर्तव्या ग(वा?वां) स्थितिरिति स्मृता ।