पृष्ठम्:वास्तुविद्या.pdf/२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वास्तुविद्यायां कूपं कुम्भगतं श्रेष्ठं मध्यमं मीनमेषयोः । अधनं मकरस्थं हि कूपान्येवं विदुर्बुधाः ॥ बहिः सञ्चारमाश्रित्य कूपद्वयमथाधमम् । ++++++++ तत् कूपद्वयमुच्यते ॥ कूपद्वयमथान्यच्च प्राकाराद् बहिरुच्यते । मेषस्थमिति यं प्राहुर्माने वारि गुरु स्मितम् || कुम्भे मीनगते कूपे लघु वारि च शोभने । मनो दुःखहरे चैव पुत्रपौत्रविवर्धने । बाह्यस्थे च तथा कूपे गुणदोषविवर्जिते । विषमागे विषं त्रिद्यादमृतेऽमृतमुच्यते ॥ वंशे वंशक्षयं विद्यात् स्तम्भस्थे वर्णसङ्करम् । क(र्मर्ण)सूत्रे मृतिं क(र्म?र्ण) बहिःसूत्रेषु विस्मृतिः ।। चोरशत्रुगृहोत्पाता गृहसूत्रे विदुर्बुधाः । प्राकारस्य बहिःसूत्रे ताह्ये शूद्रगोचरे || पुनः कोणचतुष्केषु चत्वार्यथ गृहाण्यपि । चतुरश्राणि तान्याहुर्विनियोगं ब्रवीमि ते ॥ भक्ष्यभोजनपानानि कारयेन्मीनगोचरे । गवां स्थितिस्तथा युग्मे महिषाणां तु दानवे || धान्यानि तत्र नीयन्ते प्रसादं वापि कारयेत् । वायव्ये तण्डुलस्यापि मुसलोलखलस्थितिः ॥ यदि सङ्कोचयेत् कर्ता प्रयोजनगतेच्छया । एकैकगृहसंस्थानं चतुरश्रद्वयं विदुः ॥ चतुरश्नच नुकस्य मध्ये मण्डपमुच्यते । यदि सङ्कोचयेद् भर्ता प्रयोजनगतेच्छया ॥ भयभोजनपानानि गृहे पूर्वे तदा भवेत् । दक्षिणे धनधान्यादि शयनं च विधीयते ॥ अथव्य तत्र कर्तव्या ग(वा? वां) स्थितिरिति स्मृता ।