सामग्री पर जाएँ

पृष्ठम्:वास्तुविद्या.pdf/२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९
चतुर्थोऽध्यायः ।


ईशे (य) द्यथ भुक्तिसद्म वरुणे नृत्तादि गान्धर्वक
शास्त्राद्यं निर्ऋतौ गृहक्षतपदे शय्यागृहं भूभुजाम् ॥
दण्डात् प्राङ्कणमध्यतोऽब्धिशरषट्सप्तादिसङ्ख्यानती-
त्यादध्यादथ पौप्पदन्तिकपदे द्वारं प्रचारोचितम् ।
फल्लाटे च गृहक्षतेष्वपि महाद्वाराण्युपद्वारका-
ण्यष्टाशान्तभृशादिकेषु परितः पर्जन्यनिष्ठेष्वपि ॥
इति पञ्चाशिकायाम्
दक्षिणोत्तरगात् सूत्रात् तेन पश्चिमतो भवेत् ।
अत्यष्टयङ्गुलमानान्ते ब्रह्मवाय्वन्तरालगे ||
खलूरीगृहचापस्थस्तम्भस्थानं विनिश्चितम् ।
ईशाखण्डं चतुर्धापि संविभज्य ततोऽपि च ॥
ऐशखण्डं प्रकुर्वीत राशिचक्रं विचक्षणः ।
तत्र कौर्पो कुलीरे च कूपनिर्माणमुत्तमम् ॥
नक्रराशाै वृषे चैव केचित् कुर्वन्ति पण्डिताः ।
वास्तौ वृषभकर्त्योस्तु कुर्वीत पशुमन्दिरम् ||
यमसूत्राद् दण्डमात्राद् दूरे पश्चिमतो भुवि ।
यमवाय्वन्तराले च कुर्वीतोलूखलालयम् ||
पश्चिमायतचापस्थस्तम्भात् पूर्वापरायतम् ।
वर्जयेत् सूत्रमनु तत् कुर्वीतोभयभागतः ॥
वर्जयेत् कूपवादं च पुनरन्यां च तादृशात् ।
अजकर्कितुलानक्रराशिषु द्वारमिष्यते ॥
पूर्वापरायते सूत्रे दक्षिणोत्तरगेऽपि वा ।
विभज्य नवधा वास्तु पञ्च भागास्तु दक्षिणे ||
त्रिभागान् वामके मुक्त्वा शेषे द्वारं विधीयते।
इति ग्रन्थान्तरे
कर्किकन्यातुलाचापवृश्चिका नक्रमीनकौ ।
यदि स्थानं भवेदन शोभनं जलमुच्यते ॥
इति कूपप्रश्ने।