पृष्ठम्:वास्तुविद्या.pdf/२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थोऽध्यायः । मुख्ये च नियतं द्वारं भल्लाटादपरं स्मृतम् । अथ द्वारफलं वक्ष्ये प्रोक्तं वास्तुविदां वरैः ॥ ५ ॥ आदित्ये स्थापिते द्वारे पुत्रनाशोऽथ जायते । मित्रभङ्गस्तु सत्ये स्याद् भृशे पत्या वियुज्यते ॥ ६॥ अन्तरिक्षे कृते द्वारे विनाशमपि गच्छति । पावके स्थापिते द्वारे म्रियते वेश्मनः पतिः ॥ ७ ॥ तत्र पूष्णि कृते द्वारे नश्येद दारुणशोषणैः । वितथे स्थापिते द्वारे पत्युर्मरणमादिशेत् ॥ ८ ॥ गृहक्षतपदे द्वारे कृते सम्पद्विवर्धनम् । यमे द्वारे कृते सर्वनाशं च मरणं वदेत् ॥ ९ ॥ गन्धर्वे निर्मिते द्वारे सर्वकर्मविवर्धनम् । भृङ्गराजे विपद् द्वारे मृगे सस्यविनाशनम् ॥ १० ॥ निर्ऋतौ मरणं विद्याद् दौवारिकपदे रयम् । सुग्रीवे सर्वलाभः स्यात् पुष्पदन्ते भवेद् गुणः ॥ ११ ॥ वारुणे स्थापिते द्वारेऽमित्राद्वा चोरतो भयम् । असुरे स्थापिते द्वारे नित्यमायांसकारणम् ॥ १२ ॥ पाठ:. २. १. 'तम् । नवमं तु ततो द्वारं वास्तुशास्त्रार्थवेदिभिः । आ' घ. ङ. 'सुपत्रो नाम जा' क. पाठः, 'सत्ये च स्थापिते द्वारे स्वामी शस्त्रेण पीड्यते । भृशे यदि कृते द्वारे मित्रैरपि विरुध्यते ॥ अ' च. पाठः. ४. 'नाशमिच्छन्ति चापरे । च. पाठः ५. 'धारणपोषणे ।' ६. 'ते कृते द्वारे प्राप्नुयात् कर्मणः फलम् ।' च. पाठः ७. 'यदि कृते द्वारे मृत्युमेति न संशयः ।" च. पाठ: ८. 'नगरस्य हि क. ख. पाठः. नाशनम् । च. पाठः,