सामग्री पर जाएँ

पृष्ठम्:वास्तुविद्या.pdf/२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४
वास्तुविद्याया


निर्ऋतिब्रह्मणोर्मध्ये त्विन्द्रचेन्द्रजयस्तथा ।
द्विपदद्वयसंस्थानौ ब्रुवते वास्तुवेदिनः ॥ २५ ॥
 ब्रह्मवाय्वोश्च मध्यस्थे देवते कीर्तिते इति ।
रुद्र रुद्रजयश्चैव बहिष्कोणे[]षु कीर्तितौ ॥ २६ ॥

इति वास्तुविद्यायां वास्तु[]देवताकथनं नाम
तृतीयोऽध्यायः ।

अथ चतुर्थोऽध्यायः ।
अथ द्वे प्राङ्मुखे द्वारे कुर्याद् हे दक्षिणामुखे ।
द्वारे प्रत्यङ्मुखे द्वे च द्वे च कुर्यादुदङ्मुखे ॥ १ ॥
माहेन्द्रे प्राङ्मुखं द्वारं प्रशस्तं शिष्टजातिषु ।
अपरं तु तथा द्वारं जयन्ते प्राह निश्चयात् ॥ २ ॥
गृहक्षते तथा द्वारं क्षत्रियाणामभीष्टदम् ।
गन्धर्वे निय[]तं द्वारं वैश्यानां तदभीष्टदम् ॥ ३ ॥
पुष्पदन्ते तु[] यद् द्वारं शूद्राणां तद्भीष्टदम् ।
सुग्रीवे चापरं द्वारं भल्लाटे सो[]र्ववर्णिकम् ॥ ४ ॥

  1. 'ष्ठे' ग. पाठः.
  2. 'स्तुनामक' छ. पाठः,
  3. 'हि' च.
  4. 'कृतं द्वा' ख. च. पाठ:
  5. 'सर्ववर्णकम् 'क. ग. घ.
    क. पाठ..