पृष्ठम्:वास्तुविद्या.pdf/२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

→ वास्तुविधायां निरृतिब्रह्मणोर्मध्ये त्विन्द्रश्चेन्द्रजयस्तथा । द्विपदद्वयसंस्थानौ ब्रुवते वास्तुवेदिनः ॥ २५ ॥ ब्रह्मवाय्वोश्च मध्यस्थे देवते कीर्तिते इति । रुद्रो रुद्रजयश्चैव बहिष्कोणेषु कीर्तितौ ॥ २६ ॥ पाठ.. ड. पाठ.. इति वास्तुविद्यायां वास्तुदेवताकथनं नाम तृतीयोऽध्यायः । अथ चतुर्थोऽध्यायः । अथ द्वे प्राङ्मुखे द्वारे कुर्याद् द्वे दक्षिणामुखे । द्वारे प्रत्यङ्मुखे द्वे च द्वे च कुर्यादुदङ्मुखे ॥ १ ॥ माहेन्द्रे प्राङ्मुखं द्वारं प्रशस्तं शिष्टजातिषु । अपरं तु तथा द्वारं जयन्ते प्राह निश्चयात् ॥ २ ॥ गृहक्षते तथा द्वारं क्षत्रियाणामभीष्टम् । गन्धर्वे नियतं द्वारं वैश्यानां तदभीष्टदम् ॥ ३ ॥ पुष्पदन्ते तु यद् द्वारं शूद्राणां तदभीष्टदम् । सुग्रीवे चापरं द्वारं भल्लाटे सांर्ववर्णिकम् ॥ ४ ॥ १. 'ष्ठे' ग. पाठः- २. 'स्तुनामक' छ. पाठ: ३. 'हि' च. ४. 'कृतं द्वा’ ख. च. पाठः, ५. 'सर्ववर्णकम्' क. ग. घ.