पृष्ठम्:वास्तुविद्या.pdf/२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयोऽध्यायः । पूषा च वितयश्चैव गृहक्षतयमौ तथा । गन्धर्वो भृङ्गराजश्व मृगो निरृतिरष्टमः ॥ १७ ॥ दौवारिकश्च सुग्रीवः पुष्पदन्तश्च वारुणः । असुरः शोषणो रोगो वायुश्चैव तथाष्टमः ॥ १८ ॥ १३ २ नागो मुख्यश्च भल्लाटः सोमश्चैवार्गलस्तथा । अदितिश्चोदितीशानावुत्तरस्यां दिशि स्थिताः ॥ १९ ॥ एतान्येकपदस्थानि पर्जन्याद्याः प्रदक्षिणात् । द्वात्रिंशद् देवता ज्ञेय एताः प्राकारदेवताः ॥ २० ॥ ब्रह्मभास्करमध्यस्थ अर्यमा नाम देवता । कृतान्तब्रह्मणोर्मध्ये विवखानिति च स्मृतः ॥ २१ ॥ वरुणब्रह्मणोर्मध्ये मित्रकं नाम दैवतम् । ब्रह्मसोमान्तरस्थाने महीधर इति स्मृतः ॥ २२ ॥ आपश्चैवापवत्सश्च द्विपदस्थौ यथाक्रमम् । ब्रह्मशानान्तरे कुर्याद् दैवतं वास्तुकर्मकृत् ॥ २३ ॥ हुताशब्रह्मणोर्मध्ये स्थाप्यं नामाधिदैवतम् । सविता चैव सावित्रः द्विपदद्वयसंस्थितौ ॥ २४ ॥ १. 'रादिशि देवताः' क. ख. ग. पाठः २. 'शीरिताः' ख. ङ. पाठः, ३. 'या: प्राकारे देवताः स्थिताः ॥' ख. घ. ङ. पाठः. ४. 'स्थमार्यक नाम दैवतम् ।' क. ग. घ. ङ. पाठ: ५. 'ब्रह्मदक्षिणयोर्म' ख. छ. पाठ:. ६. 'स्व- न्त इति ' ग., 'स्वन्तमिति स्मृतम् ।' क. घ. ङ. पाठः, ७. 'त्रो नामेति दे' ख. ग., 'त्रनामकदै' घ. ङ. पाठः.