पृष्ठम्:वास्तुविद्या.pdf/१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१० वास्तुविद्यायां वक्ष्येऽहं दिक्परिच्छेदं शकुनादये सति । उत्तरायणमासे तु शुक्लपक्षे शुभोदये ॥ ७ ॥ + इत उपरि च. पुस्तकेऽधिकः पाठः— “सर्वतः सुसमं कृत्वा स्थलं दर्पणसन्निभम् । तन्मध्ये दण्डमात्रं वा जलावस्थानतः समम् ॥ सच्छिद्रमध्यं तु घटं भाराम्बुपरिपूरितम् । यन्त्रिकाधारकं कृत्वा स्थलमध्ये समं न्यसेत् || ततः परिस्रुताम्भोभिः समसिक्ते तु भूतले । अन्यूनाधिकसंस्थाना यथा ज्ञेयं तदम्भसा || बिन्दुं कृत्वा स्थलं मध्ये तस्मिन् शङ्कु समं न्यसेत् । तद्यथा - भ्रमविरचितवृत्तेस्तुल्यमूलाग्रभागो द्विरददशनजन्मा सारदारूद्भवो वा । सममृजुरवलम्बादत्रणः षट्कवृत्तः समतल इह शस्तः शङ्कुरर्काङ्गुलोचः ॥ शङ्कोः पुच्छाप्रयोर्मध्ये यवस्थूलायते समे । लोहजे घटयेत् सूच्यौ तच्छाया मध्य (?) ॥ शङ्कुमानायतं सूत्रं बिन्दौ तस्मिन् निधाय तु । भ्रामयेत् परितस्तेन बिन्दौ स्थित्वा तु वर्तुलम् || तन्मध्यबिन्दौ तं शकुं स्थापयेदुभये रवेः । तद्विम्बवृत्तरेखायां शङ्कुच्छाया शिरो यथा ॥ ह्रासद्विशतिपूर्वाह्ने तत्रच्छायाग्रमकयेत् । तथापराह्ने छाया (ग्रं? यां) निर्गच्छन्त्यां तु मण्डलात् ॥ संस्पृशन्त्यां तु तद्रेखां प्राग्वत् तत्रापि लान्छयेत् । तयोरा(स्था? स्फा)लयेत् सूत्रमर्षरक्षोन्नमानतः ||