वक्ष्येऽहं दिक्परिच्छेदं शकुनादये सति ।
उत्तरायणमासे तु शुक्लपक्षे शुभोदये ॥ ७ ॥
+
इत उपरि च. पुस्तकेऽधिकः पाठः—
“सर्वतः सुसमं कृत्वा स्थलं दर्पणसन्निभम् ।
तन्मध्ये दण्डमात्रं वा जलावस्थानतः समम् ॥
सच्छिद्रमध्यं तु घटं भाराम्बुपरिपूरितम् ।
यन्त्रिकाधारकं कृत्वा स्थलमध्ये समं न्यसेत् ||
ततः परिस्रुताम्भोभिः समसिक्ते तु भूतले ।
अन्यूनाधिकसंस्थाना यथा ज्ञेयं तदम्भसा ||
बिन्दुं कृत्वा स्थलं मध्ये तस्मिन् शङ्कु समं न्यसेत् ।
तद्यथा-
भ्रमविरचितवृत्तेस्तुल्यमूलाग्रभागो
द्विरददशनजन्मा सारदारूद्भवो वा ।
सममृजुरवलम्बादत्रणः षट्कवृत्तः
समतल इह शस्तः शङ्कुरर्काङ्गुलोचः ॥
शङ्कोः पुच्छाप्रयोर्मध्ये यवस्थूलायते समे ।
लोहजे घटयेत् सूच्यौ तच्छाया मध्य (?) ॥
शङ्कुमानायतं सूत्रं बिन्दौ तस्मिन् निधाय तु ।
भ्रामयेत् परितस्तेन बिन्दौ स्थित्वा तु वर्तुलम् ||
तन्मध्यबिन्दौ तं शकुं स्थापयेदुभये रवेः ।
तद्विम्बवृत्तरेखायां शङ्कुच्छाया शिरो यथा ॥
ह्रासद्विशतिपूर्वाह्ने तत्रच्छायाग्रमकयेत् ।
तथापराह्ने छाया (ग्रं? यां) निर्गच्छन्त्यां तु मण्डलात् ॥
संस्पृशन्त्यां तु तद्रेखां प्राग्वत् तत्रापि लान्छयेत् ।
तयोरा(स्था? स्फा)लयेत् सूत्रमर्षरक्षोन्नमानतः ||