पृष्ठम्:वास्तुविद्या.pdf/१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयोऽध्यायः । सरीसृपेषु सर्वेषु तादृग्भ्यो भयमादिशेत् । अनूषरा स्निग्धवती प्रशस्ता च बहूद्का ॥ ३९ ॥ तृणोपलान्विता या सा मान्या वास्तुविधौ धरा ॥ ३९३ ॥ इति वास्तुविद्यायां वसुधालक्षणं नाम द्वितीयोऽध्यायः । अथ तृतीयोऽध्यायः । अथ वक्ष्यामि संक्षेपात् सर्वेषां वेदिविस्तरम् । वास्तोः स्थितिं च नामानि देवतानां स्थितिं तथा ॥ १ ॥ पञ्चाशद् दण्डमानं वा त्रिंशद् वा कथितं बुधैः । चत्वारिंशच वा कुर्यान्नृपाणां वेदिविस्तरम् ॥ २ ॥ द्वात्रिंशद् दण्डमानं वा त्रिंशद् वा तत् प्रकीर्तितम् । त्रयस्त्रिंशदथ प्रोक्तो द्विजानां वेदिविस्तरः ॥ ३ ॥ एकोनविंशविंशच द्वाविंशद् दण्डमानकम् । वैश्यानां वेदिविस्तारः कथितः शिल्पकोविदैः ॥ ४ ॥ पञ्चविंशच विंशद्वा दण्डमानमुदाहृतम् । २ त्रिघ्नपञ्चकदण्डे वा शूद्राणां वेदिविस्तरः ॥ ५ ॥ उत्तमश्चाधमश्चापि मध्यमश्च यथाक्रमम् | कथितो वेदिविस्तारो नृपादीनां पृथक् पृथक ॥ ६ ॥ १. 'स्तेनेभ्यो भ' क. ख. ग. छ. पाठः. २. 'पञ्चाशदथवा कुर्या- च्छूद्रा' ख. पाठः. ३. 'रम् ॥' ख. पाठः.