पृष्ठम्:वास्तुविद्या.pdf/१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वास्तुविद्यायां अग्निनीचोऽर्थनाशः स्याद् याम्योन्नतमरोगकृत् । निर्ऋत्युच्चं श्रियो लाभं पुत्रदं वरुणोन्नतम् ॥ ३१ ॥ वायून्नतं द्रव्यनाशं सौम्योन्नतमथो गदः । ईशानो महाशं वास्तु विद्यादिति क्रमात् ॥ ३२ ॥ वर्णक्रमेणाथ विद्याद् वृक्षान् शास्त्रविशारदः । अश्वत्थः पूर्वतो धन्यो दक्षिणे च उदुम्बरः ॥ ३३ ॥ न्यग्रोधः पश्चिमे श्रेष्ठः प्लक्षोऽप्युत्तरतः शुभः । न्यग्रोधः पूर्वतो वर्थ्यो दक्षिणे प्लक्ष एव च ॥ ३४ ॥ अश्वत्थः पश्चिमे भागे उत्तरे चाप्युदुम्बरः । अश्वत्थोऽग्निभयं कुर्यात् प्लक्षः कुर्यात् प्रमादकम् ॥ ३५ ॥ न्यग्रोधः शस्त्रसम्पातं कुक्षिरोगमुदुम्बरः । काष्ठेष्टकातुपाङ्गारपाषाणास्थिसरीसृपान् ॥ ३६॥ हलायेणोद्धृतान् दृष्ट्वा तत्र विद्यादिदं फलम् । काष्ठेष्वग्निभयं विद्यादिष्टकासु धनागमम् ॥ ३७ ॥ अङ्गारेषु तथा रोगं तुषेष्वेव धनक्षयम् । पाषाणेष्वपि कल्याणं कुलनाशं तथास्थिषु ॥ ३८ ॥ १. 'स्त्रि' क. ख. ग. पाठ: २. 'तू | उत्तरप्लवनं वास्तु सुखं वसति तत्कुलम् । यावत्प्राचीनतो निम्नं धनधान्येन वर्धते । यस्य दक्षिणतो निम्नं क्षयं गच्छति तत्कुलम् । पूर्वप्लवं तु तद् वास्तु वर्धते क्षिप्रमेव च । नराणां सुखदं क्षिप्रं वर्धते शुक्लचन्द्रवत् । दक्षिणप्लवनं वास्तु शरीरपतनं ध्रुवम् । नराणां क्षीयते क्षिप्रं कृष्णपक्षे यथा शशी । धनहानिमवाप्नोति पश्चिमे वर्षयेद् यदि । उत्तरप्लवनं वास्तु वर्धते शुक्लचन्द्रवत् | अश्व' क, ख, छ. पाठः..