पृष्ठम्:वास्तुविद्या.pdf/१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयोऽध्यायः । द्विजेन्द्राणां तु सुस्थानमवनी समुदाहृता । नीचमिन्द्रे भवेदुच्चं निर्ऋत्यां पश्चिमोनिले ॥ २३ ॥ सुलभं नाम तडास्तु राजराष्ट्रविवर्धनम् । सौम्येशपवनेषूच्चं नीचं भवति चेद् यमे ॥ २४ ॥ नाम्ना वास्तुचरं नाम वैश्यानां तदभीष्टदम् । नीचं वारुणमुच्चं चेदीशानेन्द्राग्निषु क्रमात् ॥ २५ ॥ वैमुखं नाम तडास्तु शूद्राणां तदभीष्टदम् । या तु सोमप्लवा चैत्र कुशदर्भैरलङ्कृता ॥ २६ ॥ आज्यगन्धा च सा भूमिब्रह्मणानां प्रशस्यते । पूर्वप्लवा च रक्ता च कुशदभैरलङ्कृता ॥ २७ ॥ रक्तगन्धा च या भूमिः क्षत्रियाणां प्रशस्यते । दक्षिणप्लवनोपेता कुशदभैरलङ्कृता ॥ २८ ॥ अन्नगन्धा च या भूमिः सा वैश्यानां प्रशस्यते । पश्चिमप्लवनोपेता दूर्वाभिश्च समन्विता ॥ २९ ॥ सुरागन्धा च या भूमिः शूद्राणां समुदाहृता ।

  • इन्द्रोन्नतं पुत्रनाशं वह्नयुन्नतमथार्थदम् ॥ ३० ॥

१. 'मेडनले' क. ख. ग. घ. ङ. पाठः, २. 'नि' घ. ङ. पाठ.. ३. 'व' च. पाठः ४. 'सत्पथं ना' क. ख. च. पाठ: ५ 'दम् । इन्द्रो' च. पाठः ६. 'ना पीतकु' क. पाठः,

  • इत आरभ्य च. पुस्तके सर्वोsपि पाठो विभिन्नो वर्तते ।