सामग्री पर जाएँ

पृष्ठम्:वास्तुविद्या.pdf/१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
वास्तुविद्यायां

श्म[]शानं नाम तद्वास्तु केवलं कुलनाशनम् ।
नीचमग्नौ भवेदु निर्ऋतीशानवायुषु ॥ १६ ॥
श्येनकं नाम तद्वास्तु नाशाय मरणाय च ।
रुद्राग्निवरुणेषूचं नीचं स्यान्निर्ऋतौ तथा ॥ १७ ॥
श्वमुखं नाम तद्वास्तु दारिद्र्यं कारयेत् फलम् ।
निर्ऋत्यग्निशिवेषूच्चं नीचं व[]ह्नीन्द्रयोस्तथा ॥ १८ ॥
ब्रह्मन्नं नाम तद्वास्तु ने[]ष्टं प्राणभृतां सदा ।
अग्नौ यदि भवेदुच्चं नीचं निर्ऋतिरुद्रयोः ॥ १९ ॥
वातनि[]म्नं च तद्वास्तु स्थावरं[] नाम शोभनम् ।
उच्च निर्ऋतिभागे स्यान्नीचं ज्वलनवातयोः ॥ २० ॥
रुद्रनिम्नं च तद्वास्तु स्थण्डिलं नाम शोभनम् ।
रुद्रोच्चं यदि[] निम्नं स्याद् वह्नौ निर्ऋतिवातयोः ॥ २१ ॥
शाण्डुलं नाम तद्वास्तु प्रापयत्य[]शुभं सदा[]
निर्ऋत्यग्निशि[]वेषूच्चं नीचं चन्द्र[१०]मसं प्रति ॥ २२ ॥


  1. ' रोगकृन्नाम तद् वास्तु नाशाय मरणाय च । रुद्रा' च. पाठः
  2. 'स्यादिन्द्रमारुते ॥' ख. च. पाठः
  3. 'हितं प्रा' ख. ग. च. पाठः>
  4. 'नं नाम त' ख. पाठः
  5. 'राणाम' घ. ब., 'दि निन्नानिनीचं नि' ख. च. पाठः.
    क. ग. घ. ड. पाठः
  6. 'मनि'
  7. 'त्येव तच्छुभम् ।' क. ख.
    ग. पाठः
  8. 'त्येव तच्छुभम् ।' क. ख.
    ग. पाठः
  9. 'यमेषू' क. ख. च. पाठ:
  10. 'समं प्र' ग घ ङ. पाठः.