पृष्ठम्:वास्तुविद्या.pdf/१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयाsध्यायः । निरृत्युच्चेमीशनीचं धनवीथीत्युदाहृतम् । इन्द्राग्न्यन्तरमुच्चं स्यानीचं वरुणवौतयोः ॥ ८ ॥ वास्तु पैतामहं विद्यान्नराणां कुरुते शुभम् । योम्याग्न्यन्तरमुच्चं स्यानीचं मारुतसोमयोः ॥ ९ ॥ सुपथं नाम तडास्तु प्रशस्तं सर्वकर्मणाम् । सोमेशानान्तरं नीचमुच्चं निरृतिकालयोः ॥ १० ॥ दीर्घायुर्नाम तडास्तु प्रशस्तं कुलवर्धनम् । ईशानेन्द्रान्तरं नीचमुचं वरुणरक्षसोः ॥ ११ ॥ पुण्यकं नाम तडास्तु द्विजानां च शुभावहम् । इन्द्राग्न्योरन्तरं नीचमुच्चं वायुजलेशयोः ॥ १२ ॥ अपथं नाम तद्वास्तु वैराय कलहाय च । कालाग्न्योरन्तरं नीचमुच्चं स्याद् वायुसोमयोः ॥ १३ ॥ रोगकृन्नाम तहास्तु नराणां रोगवृद्धिकृत् । निर्ऋत्यन्तकयोनींचमुच्चं सोमशिवान्तरम् ॥ १४ ॥ अर्गलं नाम तहास्तु ब्रह्महत्यादिनाशकृत् । रुद्रेन्द्रान्तरमुच्चं स्यान्नीचं वरुणरक्षसोः ॥ १५ ॥ १. 'च्चेशनीचा च ध' घ. ङ. पाठः. २. 'ता।' घ. ड. पाठः ३. 'सोमयोः' घ. ङ. पाठः ४. 'ब्रुवते' क. ख. ग., 'च सुखावहम् ।' च. पाठः, ५. 'अग्नियाम्यान्तरं नीचमुचं स्याद् वायुसोमयोः । अपथं नाम तद्वास्तु सर्वेषा- मशुभावहम् । नैर्ऋ' च. पाठ: ६. 'चं स्याद् वायुसोमयोः' ख. पाठः. ७. 'श्मशानं ना' च. पाठः,