पृष्ठम्:वास्तुविद्या.pdf/१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ द्वितीयोऽध्यायः । अथातो वास्तुविद्यां वै प्रवक्ष्यामि यथापुरम् । पूर्व भूमिं परीक्षेत पश्चाद् वास्तु "समारभेत् ॥ १ ॥ भुवः प्लवं प्रवक्ष्यामि नराणां च शुभाशुभम् । पूर्वप्लवा वृद्धिकरी उत्तरा धनदा स्मृता ॥ २ ॥ अर्थक्षयक विद्यात् पश्चिमप्लवनां ततः । दक्षिणप्लवना पृथ्वी नराणां मृतिदा भवेत् ॥ ३ ॥ वारुणोच्चसमायुक्ता नीचमाहेन्द्रसंयुता । गोत्रीथिरिति सा ज्ञेया ऐन्द्रोच्चा नीचवारुणा ॥ ४ ॥ जलवीथिरिति प्रोक्ता वास्तुज्ञानविशारदैः । सोमोच्चा यमनीचा च यमवीथीति कथ्यते ॥ ५ ॥ यमोच्चसोमनीचा च गजवीथीति कथ्यते । ईशोच्चं निऋतिनीचं भूतलं भूतवीथिकम् ॥ ६ ॥ आग्नेयोचें वायुनीचें नागवीथी प्रशस्यते । वायूँच्चमग्निनीचं यद् वीथीं वैश्वानरीं विदुः ॥ ७ ॥ १. 'रा' क. ग. घ. छ. पाठ:. २. 'प्लवाप्ल' छ. पाठः ३. 'च मृतिर्भवे' क. ग. घ. ङ. छ. पाठः ४. 'च्चा' घ. ङ. पाठ: ५ 'चा' घ. ङ. पाठ:. ६. 'यव्येच मझिनीचां वी' घ. ड. पाठ:

  • 'एवञ्जातीयकाः प्रयोगा अत्र बहुलाः सन्ति । + इदमर्धं घ. ड.

पुस्तकयोर्न दृश्यते ।