पृष्ठम्:वास्तुविद्या.pdf/११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमोऽध्यायः । स्थपतेस्तस्य शिष्यो वा सूत्रग्राही सुतोऽथवा । स्थपत्याज्ञानुसारी च सर्वकर्मविशारदः ॥ १६ ॥ सूत्रदण्डप्रमाणज्ञो मानोन्मानप्रमाणवित् । तक्षितानां तक्षकेणाप्युपर्युपरि युक्तितः ॥ १७ ॥ वृद्धिकृद् वर्धकिः प्रोक्तः सूत्रग्राह्यनुगः सदा । तक्षणात् स्थूलसूक्ष्माणां तक्षकः से तु कीर्तितः ॥ १८ ॥ मृत्कर्मज्ञो गुणी शक्तः सर्वकर्मस्वतन्त्रकः । गुरुभक्तः सदा हृष्टः स्थपत्याद्यनुगः सदा ॥ १९ ॥ एभिर्विनापि सर्वेषां कर्म कर्तुं न शक्यते । तस्मादेषों सदा पूज्यं स्थपत्यादिचतुष्टयम् ॥ २० ॥ एभिः स्थपत्यादिभिरत्र लोके विना ग्रहीतुं सुकृतं न शक्यम् | तैरेव साथै गुरुणाथ तस्माद् भजन्ति मोदं भजमानमर्त्याः ॥ २१ ॥ इति वास्तुविद्यायां साधनकवनं नाम प्रथमोऽध्यायः । ३ १. 'परिकी' क. पाठः, २. 'घ' क. ख. घ. ङ. पाठः. ३. 'ज्य:' क. ख. घ. ङ. च. पाठः ४. 'य:' ख. ग. ङ. च. पाठ: ५. 'व' क. ख. घ. पाठ:. ६. 'क्ष' ख. ग. घ. ङ. पाठः. ७. 'वतस्तु म' ख. घ. ङ., 'वतांस्तु म' ग. पाठ:.