पृष्ठम्:वास्तुविद्या.pdf/१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वास्तुविद्यायां तवयं हस्त उद्दिष्टः स च किष्कुरिति स्मृतः । पञ्चविंशतिमात्रैस्तु प्राजापत्य इति स्मृतः ॥ ७ ॥ पड्डूिंशतिर्धनुर्मुष्टिः सप्तविंशद्धनुर्ब्रहः । अष्टविंशाङ्गुलः प्राच्यो वैदेहो नवविंशतिः ॥ ८ ॥ वैपुल्यस्त्रिंशदङ्गुल्यस्त्वेकत्रिंशत् प्रकीर्णकः । याने च शयने किप्कुः प्राजापत्यो विमानके ॥ ९ ॥ वास्तूनां च धनुर्मुष्टिग्रीमादीनां धनुर्ग्रहः । सर्वेषामपि वास्तूनां किष्कुरेवाथवा मतः ॥ १० ॥ उत्तरेण जगत्या वा जन्मना वा प्रकीर्तितः । दण्डस्तु सुरधिष्ण्येषु मानुष्येषु चतुष्करः ॥ ११ ॥ अथ वक्ष्यामि संक्षेपाच्छिल्पिनां लक्षणं पृथक् । स्थपतिः स्थापनार्हः स्यात् सर्वशास्त्रविशारदः ॥ १२ ॥ नहीनाङ्गोऽतिरिक्ताङ्गो धार्मिकस्तु दयापरः । अमात्सर्योऽनसूयश्च तान्त्रिकस्त्वभिजातवान् ॥ १३ ॥ गणितज्ञः पुराणज्ञ आनन्दात्माप्यलुब्धकः । चित्रज्ञः सर्वदेशज्ञः सत्यवादी जितेन्द्रियः ॥ १४ ॥ अरोगी चाप्रमादी च सप्तव्यसनवर्जितः । सुनामा दृढबन्धुश्च वास्तुविद्याब्धिपारगः ॥ १५ ॥ १. 'मुद्दिष्टं तच्च कि' क. ख. ग. छ. पाठ:. २. 'तु' क. ख. ग. छ. पाठ:. ३. 'मि' क. ख. ग. छ. पाठः ४. 'तम् ।' क. ख. ग. पाठः ५. 'व' ग. ङ. च. पाठः ६. 'तु' ख. घ. पाठः ७. 'रम् ।' ख. घ. पाठः ८. 'ग' ग. घ. ङ. प.ठः. ९. 'व' घ. पाठ..